SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Xii ग्रन्थारम्भे -- .. . . .. - 'सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान किश्चिद्वस्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । माताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ।। इति मङ्गळं परिदृश्यते । तस्मान्निरूपिता गुणाः। इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन 'तिरुमलयज्वप्रियसोदरेण पण्डितसार्वभौमेन विरचिते अलंकारराघवे गुणप्रकरणं संपूर्णम्' इति ग्रन्थपरिसमाप्तिः । - तजावूरुसरस्वतीमहल्पुस्तकमाण्डागारे द्वे हस्तप्रती वर्तते । एका 'हस्तप्रतिः देवनागरीलिप्यात्मिका कर्गजपत्रमयी संपूर्णाऽस्ति । अत्रापि 'सञ्जातं स्फुटमञ्जनापरिणमदिति मङ्गळपद्य प्रारम्भे दृश्यते । उपोद्घात प्रकरणतः गुणप्रकरणं यावत् समग्रः ग्रन्थभागः उपलभ्यते । अर्थालङ्कारभागः संपूर्णोऽस्ति । शब्दालंकारभागे केचन भागाः दोषपूर्णाः वर्तन्ते । अत्र अर्थालंकारप्रकरणेन ग्रन्थपरिसमाप्तिर्भवति । गुणप्रकरणादिकं मध्ये वर्तते । ग्रन्थान्त्यः एवमस्ति- ' इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलंकारराघवे अर्थालंकारप्रकरणं संपूर्णम् । अर्थालंकारमयं प्रकरणमेतज्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालंकारभावमामोति ।। बाक्पूजयालकृतिराघवाख्यया मदीयया दुष्करयान्यपण्डितैः। सलक्ष्मणोऽयं परिवारवेष्टितः प्रीणातु रामः सह सीतया सह ॥ इति । - 1 Descriptivc Catalogue-Tanjore, VoL-Ix, p. 3975
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy