SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तदनुसारात् अत्र विद्यमाना हस्तप्रतिः प्राचीनतमा, ताळपत्रमयी, आन्ध्रलिपिस्था अपूर्णा च । केवलशब्दालंकारार्थालंकारभागः अस्ति । शब्दालंकारप्रकरणे केचन भागाः लुप्ताः । अन्ये केचन भागाः दोषयुताश्च वर्तन्ते । आक्षेपालंकारपर्यन्तमेव ग्रन्थस्य समुपलब्धिः । आक्षेपालंकारेऽपि समग्रः भागः नास्ति । अत्र प्रतौ - 'खदक्षजानुस्थितवामपादं पादोदराकल्पितवामषट्कम् । अपस्मृतेराहितपादमले __ प्रणौमि देवं प्रणिधानवन्तम् ॥ इति 'मङ्गळपद्यमस्ति । ततः अर्थालद्वारा निरूप्यन्ते । ननु 'काव्यशोभाहेतुरलंकार' इत्यलंकारसामान्यलक्षणमिति रुद्रटः इति ग्रन्थस्य आरम्भः भवति । वक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतिपत्त्यर्थ निषेधाभास आक्षेप .... सर्वस्वकारः। .... मपि विशेषं वक्तुं वक्ष्यमाणस्य यति प्रति .... इति अपूर्णभागः अन्ते दृश्यते । मदरास् अडयार् पुस्तकभाण्डागारे स्थिता एका 'हस्तप्रतिस्तु संपूर्णा कर्गजपत्रमयी ग्रन्थलिपिस्था च । उपोद्घातप्रकरणतः-गुणप्रकरणं यावत् , ग्रन्थभागः उपलभ्यते । परं शब्दालंकारप्रकरणे केचन भागाः लुप्ताः दोषप्रस्ताश्च विद्यन्ते । मध्ये अर्थालंकारप्रकरणं नास्ति । लुप्तमिति प्रतिभाति । 1 मङ्गळपद्यमिदं ग्रन्थकारस्य खकीयं पद्यं न। अन्यत्र स्तोत्रे परिदृश्यते । लिपिकारेण लिखितमिति प्रतिभाति । Descriptive Catalogue of Sanskrit manuscripts' in the Adayar library, VOL-V, 1951. p. 516-517, MSS No. 1619.
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy