________________
समुच्चयालंकारप्रकरणम्
237
'एकेन क्रियमाणं यत्रान्यः स्पर्धयैव तत्कुरुते । सोऽपि समुच्चयभेदः कथितोऽन्यस्तत्करो द्वैधम् ॥
इति विद्याधरः । 'यत्रैकस्मिन् निगदिते साधके साध्यसिद्धये । तदन्यान्यपि कुर्वन्ति स तत्कर इतीष्यते ।।'
. इति साहित्यचिन्तामणिकारः । 'खले कपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयस्समुच्चयः ॥'
इति । द्वितीयसमुच्चयः तत्कर इति पर्यायः । तत्र प्रथमद्वितीययोः यथाश्रुतेऽर्थे समाध्यलकारे अतिव्याप्तेः । तत्राप्येकस्मिन् कार्यसाधने कारणान्तरप्रवेशात् । द्वितीयचतुर्थलक्षणयोस्तु 'खले कपोताः पतिताः शालिबीजान्यभक्षयन्' इत्यत्रापि तत्करालङ्कारापत्तिः । न च तत्रापि तत्कर एवेति वाच्यम् । कपोतानां प्रातिस्विकशालिबीजभक्षणभेदप्रवृत्तत्वेनैककार्यव्यापाराभावात् । न च शालिबीजभक्षणत्वावच्छेदेन तत्रैककार्यत्वं शक्यम् ।
‘वालेन कश्चित्प्रजघान कश्चित्
__भुजेल कश्चिच्चरणेन कश्चित् । ददार कश्चिन्नखरैश्च दंशन्
दन्तैस्तथैवं कपयोऽपिपीडन्' | इत्यादावपि समुच्चयालङ्कारप्रसङ्गात् । तत्रापि पीडत्वावच्छिन्नपीडाया
'उपजातिवृत्तमिदम् । अस्मिन् पद्ये चतुर्थपादे ' अपिपीडन्' इत्येतत् क्रियापदम् । अवगाहनार्थकपीडधातोः लुङि प्रथमपुरुषबहुवचनान्तं रूपम् ।