________________
238
अलङ्कारराघवे
एकत्वात् । किञ्च अचेतनकारणसमुच्चय विद्यानाथलक्षणस्याऽव्याप्तिं को वारयेत् : तेषां चेतनधर्मसमुद्योगाभावात् । तस्मात् तत्करालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते-
' खले कपोतन्यायेन प्रवृत्तानां कारणानां स्वभावेन एकस्मिन् सति कार्ये व्यापारस्तत्करः इति लक्षणनिष्कर्षः ।
"
न समाध्यलङ्कारेऽतिव्याप्तिः । तत्र खले कपोतन्यायेन कारणानामप्रवृत्तेः । न च ' खले कपोताः पतिता:' इत्यादावतिप्रसङ्गः । तत्र स्वभावेन कार्य - स्यैकत्वाभावात् । उदाहरणम् -
' शीलं विद्या सकलविषया सच्चरित्रं पवित्रं वेदान्तोक्तस्सुगुणनिकरोऽखण्ड कीर्तिप्रतापौ । लक्ष्मीः साक्षात् रघुपतिमलंकुर्वते निर्विकामाः तेनैवालङ्करणमयते भूषणानां प्रपञ्चः ' ॥ ' अत्र शीलविद्यादीनां सर्वेषां खले कपोतन्यायेन रामालङ्कारसाधकत्वम् ।
॥ अथ फलसमुच्चयालङ्कारः ॥
अस्य पेटिकासङ्गतिः पूर्ववत् । अस्य कविप्रौढिमात्रकल्पितत्वेन उक्तसमुच्चयद्वयापेक्षया जघन्यत्वात् तदानन्तर्यमित्यवान्तरसङ्गतिः ।
1
101
6
युगपद्धेतुनैकेन यत्रानेकफलोदयः । अलङ्कारोऽयमाख्यातो बुधैः फलसमुच्चयः || '
निगदव्याख्यातं लक्षणम् ।
मन्दाक्रान्तावृत्तम् । ‘मन्दाक्रान्ता जलधिषडगैम्भ नतौ ताद्गुरू चेत्' इति तल्लक्षणं वृत्तरत्नाकरे ।