SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ समुच्चयालङ्कारप्रकरणम् 235 'गुणक्रियायोगपद्यं समुच्चय उदाहृतः' इति विद्यानाथः । तत्र सर्वत्र वक्तव्यम् । किं गुणयोगपद्यं समुच्चयः । किं वा क्रियायोगपद्यम् । आहोस्वित् गुणक्रियायोगपद्यम् । उतान्यतरयोगपद्यम् । नाद्यद्वितीयौ। क्रियायोगपद्यरूपगुणयोगपद्यरूपसमुच्चये च क्रमेणाव्याप्तेः । अत एव न तृतीयः । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । तस्मात् समुच्चयालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'जातिद्रव्यातिरिक्तभावानां योगपद्येन समुच्चयः' . इति लक्षणनिष्कर्षः । उदाहरणानि - i) 'तत्रैकविषयत्वे गुणसमुच्चयो यथा - ... 'सिंहासनमुपारूढे रामचन्द्र किरीटिनि । सङ्कल्पोत्साहसंमोहाः कृतार्था भरतात्मनि ।' ii) तत्र एकक्रियासमुच्चयों यथा - रामे शिशौ रणितनूपुरकिङ्किणीक मग्रे निजे नटति कोसलराजपुत्री । आलोकते शिरसि जिघ्रति गण्डयुग्मं .... .... निवेशयतेऽपि चाङ्के । 1 तत्रैकविषयत्वे गुणसमुच्चयो यथा'- इत्यारभ्य 'सदिव्यभूषे' इत्यन्तो भागः 'न' प्रतौ लुप्तः । 'सर्वासु प्रतिषु 'चुम्बत्यभीषय निवेशयतेऽपि चाके' इति चतुर्थपादोऽयं दृश्यते । अत्र 'चुम्बत्यभीषय' इत्यस्मिन् भागे दोषः वर्तते । गत्यन्तराभावात् टिप्पण्यां प्रदर्शितः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy