SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नियमालङ्कारप्रकरणम् 231 || अथ नियमालङ्कारः॥ अस्यापि पूर्ववत् पेटिकासङ्गतिः । अस्यापिनियम घटितत्वेन तदानन्तर्यमित्यवान्तरसङ्गतिः । 'एकत्रानेकवस्तूनां प्राप्तावेकस्य वस्तुनः । नियमोऽलंकृतिज्ञानां नियमालंकृतिर्मता ॥' 'निगदव्याख्यातमेतल्लक्षणम् । उदाहरणम् – 'प्रारद्वारमध्यं वस नील वायुपुत्रावरं दक्षिणमङ्गद त्वम् । विभीषणाद्यैरहमेव साक्षात् किमुत्तरैरुत्तरमावसामि ॥' -0 || अथ अपूर्वालङ्कारः॥ अस्यापि पूर्ववत् पेटिकासंङ्गतिः । परिसंख्यानियमालङ्कारनिरूपणानन्तरम् अस्याप्युत्थितत्वात्तन्निरूपणमुचितमित्यवान्तरसङ्गतिः । 'अत्यन्तालक्षितार्थस्य प्राप्तियत्र निबध्यते । एषालङ्कारशास्त्रज्ञैरपूर्वालंकृतिस्मृता ।' निगदव्याख्यातं लक्षणम् । उदाहरणम् - 'इह पश्य राम ! मणिशृङ्गसङ्गतो नयनामिनन्दनकरो हिरण्मयः । क्वचिदप्य विश्रुतविलोकितो मृगः समुपैति सम्प्रति विचित्रविक्रमः ॥ ' निगमव्याख्यातम् - न उपजातिवृत्तमिदं पद्यम् । ''मजुभाषिणीवृत्तमिदं पद्यम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy