SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 232 अलङ्कारारघवे || अथ उत्तरालङ्कारः॥ .अस्यापि पूर्ववत्पेटिकासङ्गतिः। प्रश्नघाटेतत्वेन अस्यापि परिसंख्यानन्तर्यमित्यवान्तरसङ्गतिः । ननु - 'उत्तरश्रुतिमात्रत: प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति । असकृत् यदसंभाव्यम् उत्तरं स्यात्तदुत्तरम् ||' .. इति काव्यप्रकाशकारः । 'उत्तरात्प्रश्नोनयनमसकृदसंभाव्यमुत्तरं चोत्तरम्' .. इत्यलङ्कारसर्वस्वकारः । 'यत्रोत्तरादुपन्यस्ता प्रश्नस्योन्नयनं भवेत् । उत्तरं प्रश्नपूर्व वाप्यसकृत्स्यात्तदुत्तरम् ॥' इति साहित्यचिन्तामणिकारः । 'उत्तरात् प्रश्न उन्नयो यत्र प्रश्नोत्तरे तथा । बहुधा च निबध्येते तदुत्तरमुदीर्यते ।। ' इति विद्याधरः । तत्र सर्वत्र वक्तव्यम् । उत्तरात् प्रश्नोन्नयनं वोत्तरालङ्कारः ? असकृत्प्रश्नोत्तरनिबन्धो वा ? उभयं वा ? अन्यतरो वा ? नाद्यः । द्वितीयोत्तरे अव्याप्तेः । न द्वितीयः । प्रथमोत्तरे अव्याप्तेः । न तृतीयः । उभयोरेकत्रोपनिबन्धासंभवात् असम्भवप्रसङ्गात् । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । तस्मात् उत्तरालङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - 'उत्तरात् प्रश्नोन्नयनरूपत्वे सत्यसकृत् प्रश्नोत्तरोपनिवन्धरूपत्वानधिकरणमेलद्विशेषणविशेष्योभयाभावानधिकरणालङ्कारः' उत्तरालङ्कारः। असकृत्प्रश्नोत्तरोपनिबन्धनरूपोत्तरालङ्कारे विशेष्यसत्वेऽपि सत्यन्तविशेषणासत्त्वात् विशिष्टाभावानुगत्या लक्षणानुगतिः । उत्तरात् प्रश्नोनयनरूपोत्तरालङ्कारे तु विशेषणसत्वेऽपि विशेष्यासत्त्वात् विशिष्टाभावानुगत्या
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy