________________
230
अलङ्कार राघवे
ii) आर्थिकवर्जनीय्या प्रश्नपूर्विका यथा - .
'किं लोचनरमणीयं मणिमयरघुनाथमूर्धकोटीरम् । . किं धार्य मनसि सता रामपदाम्भोजमुल्लसत्कटकम् ॥'
अत्र पूर्वत्र न सूर्यमण्डलमित्यर्थात् प्रतीयते । उत्तरत्र न तु परयुवतिरित्यर्थात् प्रतीयते । iii) अप्रश्नपूर्विका शाब्दवर्जनीय्या यथा -
'कटीतटे पीतपटो न वल्कलं ' कराम्बुजे कङ्कणमेव नांकुशम् । शिरस्यपि स्फारकिरीटमेव नो
___ जटागणो राजति जानकीपतेः ॥' iv) अप्रश्नपूर्विकार्थिकवर्जनीया यथा -
'रघुवंश एव वंशो रघुपतिरेवात्र रखको राजा । "अन्यमहालङ्काराः .... .... .... .... || अत्र पूर्वत्र नान्यो राजेति वर्जनीयमार्थिकम् । उत्तरत्र न लौकिकभूषणानीति वर्जनीयमार्थिकम् ॥
-
-
'आर्यावृत्तमिदं पद्यम् । 'वंशस्थवृत्तमिदं पद्यम् । 'अन्यमहालङ्काराः इत्यनन्तरं एकत्र प्रतौ 'सुगुणाय नागमावेद्याः'
इत्यस्ति अन्यस्यां प्रतौ 'सुगुणाय रामवेद्या' इति वर्तते । सर्वोऽप्ययं पाठः दोषपूर्णः इति उपरि न दत्तः ।