________________
परिसंख्यालङ्कारप्रकरणम्
229 'किं णु धणं १ कुळविजा को लाहो संजणेण सहवासम्' इति प्रश्नपूर्वोत्तरालङ्कारेऽतिव्याप्तिः। तत्र धनत्वादेः वस्तुनोऽनेकप्राप्तावेकत्र कुलविद्यादिनियमप्रतीतेः । इतरनिवृत्तौ रूढायाः परिसंख्यायाः एकत्र नियमनरूपत्वाभावात् इतरभेदसाधने असिद्धयापत्तेश्च । काव्यप्रकाशकारलक्षणे वक्तव्यं-तत्र यत्पृष्ठं कथित अन्यव्यपोहाय कल्पते 'सा परिसंख्येति वा ? यदपृष्टं कथितम् अन्यव्यपोहाय कल्पते सा परिसंख्येति विवक्षितम् ? उभयं वा ? तयोरन्यतरद्वा ? नाद्यः । द्वितीयपरिसंख्यायामव्याप्तेः । न द्वितीयः। प्रथमपरिसंख्यायामत्र्याप्तेः । न तृतीयः । असंभवापत्तेः । न चतुर्थः । अन्यतरशब्दार्थानिरूपणात् । तस्मात् परिसंख्यालङ्कारलक्षणं दुनिर्वचमिति चेत् अत्रोच्यते -
'एकस्य वस्तुनोऽनेकत्र प्राप्तावेकत्र नियमनेन । अन्यनिवृत्तित्वेन विवक्षितान्यनिवृत्तिः परिसंख्या ॥'
इति लक्षणनिष्कर्षः । न प्रश्नपूर्वोत्तरालङ्कारेऽतिव्याप्तिः । तत्र इतरनिवृत्तेः प्रतीयमानाया अपि उत्तरत्वेन विवक्षितत्वात् । अन्यनिवृत्तित्वेनाविवक्षितत्वात् । अन्यनिवृत्तित्वेन विवक्षितेत्यनेन तद्व्यावृत्तेः । नापि इतरभेदसाधनेऽसिद्धयापत्तिः । इतरनिवृत्तिरूपत्वस्य सत्वात् । सा परिसंख्या प्रथम द्विविधा । प्रभपूर्विका अप्रश्नपूर्विका चेति। द्विविधापि सा शाब्दवर्जनीय्या आर्थिकवर्जनीय्या चेति चातुर्वियं प्राप्नोति परिसंख्या ।। i) अत्र शाब्दवर्जनीया प्रश्नपूर्विका परिसंख्या यथा - .
को धवलस्त्रैलोक्ये राघवहारो न पूर्णचन्द्रांशुः ।
किं पीतं रामकटीतटवसनं नैव काश्चनं 'विमलम् || 'सा परिसंख्येति वा विवक्षितम् ? यदपृष्ठं कथितम् अन्यव्यपोहाय कल्पते सा परिसंख्या इति वा - न 'आयोवृत्तम् ।