________________
226
अलङ्कारराघवे
'अथ वाक्यन्यायपेटिका
॥ यथासंख्यालङ्कारः ॥ तर्कन्यायपेटिकानन्तरं मीमांसाप्रसिद्धवाक्यन्यायपेटिकानिरूपणमिति पेटिकयोस्सङ्गतिः । तत्रापि 'सर्ववाक्यानां पदार्थोद्देशप्रधानत्वात् पदार्थोद्देशगर्भयथासंख्यालङ्कारनिरूपणं प्रथममित्यवान्तरसङ्गतिः। तत्र - 'यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः'
इति काव्यप्रकाशकारः । 'उद्दिष्टानाम् अर्थानां क्रमेणानूद्देशः यथासंख्यम्'
इत्यलङ्कारसर्वस्वकारः। 'उद्दिष्टानां पदार्थानां यथाक्रममनूदितैः। समन्वयो यथासंख्य शान्दं चार्थ च तद्विधा ||'
इति साहित्यचिन्तामणिकारः । 'उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् ।
अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते ||' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् -
''पीताम्बरं रत्नकिरीटमङ्गदे
__ हरिन्मणिं निर्मलकुण्डले दधौ। 1 ‘अथ वाक्यन्यायपेटिका'- इति भागः 'त' प्रतो नास्ति । ' सर्ववाक्यन्यायानुप्रधानोद्देशप्रधानत्वात्-त ' पद्यमिदं — उपजातिवृत्ते' वर्तते । प्रथमतृतीयचतुर्थपादेषु 'ततजर'
गणैः इन्द्रवंशावृत्तं लक्षणम् । ‘स्यादिन्द्रवंशा ततजैरसंयुतैः' इति तल्लक्षणं वृत्तरत्नाकरे । द्वितीयपादे ‘जतजरगणैः' वंशस्थवृत्तलक्षणम् । ‘जतौ तु वंशस्थमुदीरितं जरौ' इति तल्लक्षणं वृत्तरत्नाकरे। अनयोः मिश्रणात् इदमुपजातिवृत्तम् ।