________________
अर्थान्तरन्यासालङ्कारप्रकरणम्
225
असंभवप्रसङ्गात् । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । तस्मादर्थान्तरन्यासालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'सापेक्षस्यार्थस्यार्थान्तरेण समर्थनमर्थान्तरन्यासः'
............ इति लक्षणनिष्कर्षः ।। स च कार्यकारणभावेन सामान्यविशेषभावेन वा प्रकृतसमर्थनेत्र द्वैविध्यं प्राप्नोति -. :
. i) तत्र सामान्येन विशेषसमर्थनं यथा -
'तिरोदधे सहस्रांशुः राममौळिमणित्विषा' ।
'अन्यत्तेजस्तिरोधातुः खतेजोऽन्तर्द्धिमश्नुते ॥'.
अत्र सामान्यं राममणिकिरीटकान्त्या सूर्यतेजस्तिरोधानरूपविशेष समर्थयतीति । ii) विशेषात् सामान्यसमर्थनं यथा -
'सर्वोत्तरो भवत्येव पादसेवी परेशितुः।
रामस्य पादकटकः सुरमौळि करोत्यधः ॥'
अत्र रामपादकटकं सुरमुकुटानामुपरि वर्तते इति विशेषेण सामान्यसमर्थनम् । - iii) कार्यात् कारणसमर्थनं यथा -
'कटकं रामपादाने घटय त्वं मणीमयम् ।
प्रकाशतेत्र नितरां रामपादोपसेवकः ॥'
अत्र फलभूतेन रामपादोपसेविनां प्रकाशातिशयेन रावणभूतं कटकस्य रामपादसेवनं समर्थ्यते ।
1 त्विषः - त 'अन्या तेजास्तिरोधातुः स्वतेजोऽतर्विमश्नुते-त
.