________________
224
... अलङ्कारराघवे
|| अथ अर्थान्तरन्यासालङ्कारः ।। अस्यापि पूर्ववत् पेटिकासङ्गतिः। समर्थकहेतोः कारकादिवत्वापेक्षयातिजघन्यत्वात् तत्सापेक्षककाव्यलिङ्गस्यान्ते निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु -
'सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधयेणेतरेण वा ।।'
इति काव्यप्रकाशकारः । 'सामान्यविशेषभावकार्यकारणभावाभ्यां । निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः ॥'
____ इत्यलङ्कारसर्वस्वकारः । 'सामान्येन विशेषः सामान्यं वा यथा विशेषेण । कथितः समर्थ्यतेऽर्थो भवति तदार्थान्तरन्यासः ॥'
_ इति विद्याधरः। 'सामान्यस्य विशेषेण तेनान्यस्य समर्थनम् । यत्र चार्थान्तरन्यासः साधात्तद्विपर्ययः ॥'
- इति साहित्यचिन्तामणिकारः । 'कार्यकारणसामान्यविशेषाणां परस्परं समर्थनम् यत्र
सोऽर्थान्तरन्यास उदाहृतः' इति विद्याधरः । काव्यप्रकाशकारलक्षणे इतरेण वा बैधर्येण वेत्यर्थः । तत्र सर्वत्र वक्तव्यम् । किं सामान्येन विशेषणसमर्थनमर्थान्तरन्यासः ? किं वा विशेषेण सामान्यसमर्थनं वा ? आहोस्विदुभाभ्यामुभयसमर्थनं वा ? उतान्यतरेणान्यतरसमर्थन वा ? नाद्यः । विशेषेणसामान्यसमर्थनरूपार्थान्तरन्यासे अव्याप्तेः । न द्वितीयः । सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासेऽज्याप्तेः । न तृतीयः ।