SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ काव्यलिङ्गालङ्कारप्रकरणम् 223 तस्मात् काव्यलिङ्गालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'ज्ञापकसमर्थकेतरहेतोर'हेतुविवक्षितशब्दार्थत्वगतत्वे काव्यलिङ्गम् ' .. - इति लक्षणनिष्कर्षः । 'न च कारणात् कार्यसमर्थनरूपार्थान्तरन्यासे अतिव्याप्तिस्स्यादिति वाच्यम्। तस्यापि काव्यलिङ्गत्वेनेष्टत्वात् । तच्च शब्दार्थस्य पदार्थवाक्यार्थरूपत्वेन द्वैविध्ये संभवति । तत्र हेतोवाक्यार्थत्वे यथा - 'घटयति शिरसि किरीट वक्षसि(हारं तथा)ङ्गदे भुजयोः । रामोऽखिलाधिनाथो योत्स्यति पातुं त्रिलोकमास्थानीम् ॥' अत्र वाक्यार्थगतत्वं हेतुत्वम् । हेतोः पदार्थगतत्वे यथा - • अथवा शिरस्स्थेल रामचन्द्रस्य मौळिना । 'नीतोत्तरीयसंमृष्टसान्द्रमन्दाररेणुना ।। अत्र रामकिरीटोल्लासे पुरन्दरादिसुरमुक्तमन्दारकुसुमपरागनिरासो हेतुः । स च विशेषणगतत्वात् पदार्थगतः । ' हेतुविभक्त्यन्तशब्दार्थ - न . ' न च कारणात् काव्यसमर्थनरूपान्तरस्स्यादिति – आ 'मातृकायां 'हारोऽङ्गदे' इति पाठः अस्ति । स तु दोषपूर्णः इति कृत्वा 'हारं तथाङ्गदे' इति शोधितः । • आर्यावृत्तमिदम् । 'वाक्यार्थगतं हेतुत्वम् - न ' पद्यमिदमशुद्ध सर्वासु प्रतिषु दृश्यते । गत्यन्तराभावात् तथैव दत्तम् । 'नीतोपरीयसंमृद्धसान्द्र - न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy