________________
222
अलङ्कारराघवे
'वाक्याथों यदि हेतुर्भवति पदार्थो विशेषणद्वारा । द्विविधं कथयन्ति तदालङ्कारं काव्यलिङ्गमिति ।।'
इति विद्याधरः ।। 'तत्काव्यलिङ्गं हेतुत्वं यद्वाक्यार्थपदार्थयो'
इति साहित्यचिन्तामणिकारः । ' हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्'
इति विद्यानाथः । तत्र सर्वत्र वक्तव्यम् । किं हेतोः पदार्थत्वं काव्यलिङ्गम् ? किंवा वाक्यार्थत्वम् ? समुचिंतमुभयं वा ? तयोरन्यतरद्वा ? नाद्यः । वाक्यार्थहेतुककाव्यलिङ्गे अव्याप्तेः । न द्वितीयः । पदार्थहेतुककाव्यलिङ्गे अव्याप्तेः । न तृतीयः । असंभवात् । संभवे वा 'प्रत्येकहेतुके तथैवाव्याप्ति को वारयेत् ? न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । किंच अनुमानालङ्कारेऽतिव्याप्तेः। तत्रापि साधनापरपर्याय हेतोः पदार्थवाक्यार्थरूपत्वात् । ननु ज्ञापकेतरहेतोः पदार्थत्ववाक्यार्थत्वयोः काव्यलिङ्गमिति विशिष्टम् इति चेत् तर्हि अर्थान्तरन्यासेऽतिव्याप्तिः। तत्र ज्ञापकेतरसमर्थकहेतोः पदार्थवाक्यार्थरूपत्वात् । ननु ज्ञापकसमर्थकेतरहेतोरिति विवक्षितमिति चेत्तर्हि -
'सम्पद्यते पुमानेषः प्राप्तश्रेय:परम्परः।
भगवद्रघुवंशेन्द्रकृपादृग्गोचरत्वतः ॥' इत्यत्रातिव्याप्तिः स्यात् । तत्राप्युक्तलक्षणसत्वात् । न च तत्र काव्यलिङ्गमिष्टमेवेति वाच्यम् । . ..
' यदा पुनः पदार्थहेतुत्वे तृतीयान्तं पञ्चम्यन्तं वा पदमुपादीयते तदा हेतुत्वमात्रं, नालङ्कारः' इति विद्याधरवचनात् ।
। प्रत्येकहेतुरिति-तं
'हेतुमात्रं-न