________________
अनुमानालङ्कारप्रकरणम्
___221
उदाहरणम् - यतः स्वच्छाकारे प्रतिफलति मञ्चित्तमुकुरे
रघूणामुत्तंसः कटितटलसत्पीतवसनः । 'स्फुरत्स्फारो हाराङ्गदयुगमणीकुण्डलघरः
ततः सीतावीतः 'स विभुरतिसान्निध्यमयते ॥ अत्र प्रतिबिम्बात् बिम्बानुमानम् उक्तमिति मन्तव्यम् । रूपकानुप्राणितशुद्धानुमानालङ्कारस्य एतदुदाहरणम् । श्लेषाद्यनुप्राणितमष्येवमेवोदाहरणीयम् ।
|| अथ काव्यलिङ्गालङ्कारः ॥ अस्य तर्कन्यायमूलत्वेन पेटिकासङ्गतिः । अनुमानालङ्कारानन्तरम् अस्यापि हेतुघटितत्वान्निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'काव्यलिङ्गं हेतोः वाक्यपदार्थता'
____ इति काव्यप्रकाशकारः । "हेतोवाक्यपदार्थता काव्यलिङ्गम्' इत्यलङ्कारसर्वस्वकारः । स्फुरत्स्फारः-रामः, अत्र स्फारः आभरणविशेषः । स्फुरन् स्फारः
यस्मिन् सः स्फुरत्स्फारः । प्रोज्वलाभरणधारीत्यर्थः । २ 'सीतान्वीतः' इति सर्वत्र प्रतिषु पाठः दृश्यते । अयं पाठः अशुद्धः ।
अतः 'सीतावीतः' इति शोधितः । 'सीतया अवीतः' युक्तः इति 'सीतावीतः' - सीतासहचरः इत्यर्थः । स विभुः-रामः अतिसान्निध्यमयते-निकटतमो भवतीत्यर्थः । 'शिखरिणीवृत्तम् । ‘रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति तलक्षणं वृत्तरत्नाकरे ।