SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 220 ' अपि कान्तार सञ्चारे रामो राजा न संशयः । अन्यथैषः कथंकारं भवेत्सिंहासनस्थितः || ' इति कविप्रौढिकल्पिते श्लेषप्रतिभोत्थापिते बाधालङ्कारेऽतिव्याप्तिः । 1 साध्याभावप्रमा यत्र सा बाधालंकृतिर्मता' इति 'लक्षणात् । ननु तर्हि "अबाधितत्वेऽपि साधनं विशिष्टम् इति चेतर्हि पर्वतो वह्निमानित्यादितार्किक।भिमतपञ्चावयववाक्येऽतिव्याप्तिः । न च तत्राप्यनुमानालङ्कारोऽस्त्येवेति वाच्यम् । विच्छित्तेरभावात् । ननु - रूपक श्लेषापहूनुत्याद्यनुप्राणितत्वेन साधननिर्देशो विशेष्यत इति नोक्तदोष इति चेतर्हि तदनुप्राणित शुद्धानुमानालङ्कारेऽव्याप्तिं को वारयेत् ? शुद्धमप्येतत् संभवतीत्येकावळीकारवचनात् । किञ्च किं करणप्रमाणत्वादिमतानुसारेण । नान्त्यः । असंभवप्रसङ्गात् । साध्यसाधननिर्देशस्य प्रमितिरूपत्वात् । नानुमानं ज्ञातसंबन्धस्यैकदेशस्य दर्शनात् एकदेशान्तरे असन्निकृष्टे बुद्धिरिति जैमिनिना बुद्धिरेवानुमानमित्युक्तत्वात् । आधे तवा सिद्धेश्च । तस्मादनुमानालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते 6 1 4 'साध्यानाभाससाधन निर्देश साध्यज्ञानरूपालङ्कारोऽनुमानालङ्कारः ' इति लक्षणनिष्कर्षः । अलङ्कारराघवे अनाभासपदेन सर्वाभासव्यावृत्तिः । अलङ्कारपदेन प्रसिद्धधूमानुमानवाक्यव्यावृत्तिः तस्यालंकाररूपत्वाभावात् करणप्रमाणवादिमते साध्यसाधन"निर्देशसाध्यज्ञानानुमानं विशिष्टवैशिष्ट्या वगाहिज्ञानं तत्साध्यज्ञ नं लिङ्गपरामर्शरूपमिति न संभवः । प्रमितिप्रमाणवादिमतेऽपि साध्यसाधननिर्देशेन साध्यज्ञानं व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानादिरूपमिति नासंभव इति द्रष्टव्यम् । तल्लक्षणात्-न अबाधितत्वेनापि - न 2 निर्देशेन साध्यज्ञान-त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy