________________
प्रत्यनीकालङ्कारप्रकरणम्
215
'अक्षमेण विपक्षस्य प्रतिकतु तिरस्क्रिया । क्रियते यावदन्यस्य प्रत्यनीकं तदुच्यते ॥'
इति साहित्यचिन्तामणिकारः। . 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥'
इति विद्यानाथः । विद्याधरलक्षणव्यतिरिक्तलक्षणेषु 'तदीयान्यप्रतिबलस्य तिरस्कारासंभवात् यथाश्रुते असंभवापत्तिः । ननु तार्हे विद्याधरलक्षणानुसारेण तदीय्यदुर्बलतिरस्कारः प्रत्यनीकमिति सर्वत्र विवक्षितमिति चेन्न । यावदुर्बलतिरस्कारासंभवादसंभवापत्तेः । ननु दुर्बलस्यापि तदीयस्य कस्यापि तिरस्कार एव प्रत्यनीकम् इति चेत्तर्हि - ___. 'काकतीयपतिशौर्यमहोष्म
न्यक्कृतत्वमहिमा वडवाग्निः। तद्भीरिमसनामिमजलं
पाधते निधिमपा बहिरन्तः ॥' इत्यत्राव्याप्तिः । तत्र सन्निधेः तदीयत्वाभावात् । ननु गाम्भीर्यादिना दृश्यरूपसंबन्धेन असन्निधेरपि तदीयत्वम् अस्त्येवेति चेत्तर्हि -
‘उन्मूलयामास तपःकृते कृशान्
नृपो रिपुं जेतुमशक्नुवन् वनात् ॥' इत्यादावपि प्रत्यनीकालङ्कारप्रसङ्गः। तत्रापि प्रमेयत्वादिसामान्यलक्षणप्रत्यासाया कृशादीनामपि रिपुसंबन्धत्वसंभवात् । नन्वलौकिकप्रत्यासत्तिव्यतिरिक्त प्रत्यासत्या तदीयत्वं विवक्षितमिति चेत्तर्हि -
' तदीयस्स्य प्रबलस्य तिरस्कारासंभवात्-त,न .