SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 216 ('स्वं जितो मन्मथो ) राजन् त्वां विजेतुमशक्नुवन् । किंकरं कुरुते स्वस्य राजबन्दीदुरत्यया ॥ इत्यादावव्याप्तिः । तत्र राजत्वसामान्यलक्षणप्रत्यासत्या तदीयत्वात् । तस्मात् प्रत्यनीकालङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्चते - ' प्रतिपक्षप्राबल्ये येन केनापि संबन्धेन तदीयस्य तदीयत्वबुद्धया तिरस्कार: ' इति लक्षणनिष्कर्ष: । 'उन्मूलयामासेत्यादौ तदीयत्वबुद्धया कृशोन्मूलनाभावानातिव्याप्तिः । प्रागुक्तस्थले नाव्याप्तिरपीति || तत्र तदीयत्वबुद्धेः विवक्षितत्वात् । उदाहरणम् 2 - अलङ्कारराघवे "अददाद निलात्मजाय यो रघुनाथ निजहारमुज्वलम् । अमुनापि जितो विजृम्भते हरहारोऽनिलमद्य भक्षयन् ॥ 1 ''त' प्रतौ ' तृज्जेतो मन्मथा राजन्' इति पाठः दृश्यते । स तु ' त्वं जितो मन्मथो राजन् ' इति शोधितः । आवरणे प्रदत्तश्च । श्रीरामः हनूमते स्वकीयं हारं ददौ । तेन हारेण हनूमान् अतिशयेन रराज । हारकान्तिः सर्वोत्कृष्टा आसीत् । इमाम् कान्तिमसहमान: शिवकण्ठहारः सर्पः हनूमन्तं प्रति प्रतीकारं कर्तुम् असमर्थस्सन् तस्य पितरमनिलं वायुं भक्षयन् ( सर्पः वायुभक्षकः इति प्रसिद्धः) अधुनापि विजृम्भते इति । अत्र हनूमन्तं प्रति वा, हारं प्रति वा प्रतीकारकरणे असमर्थः सर्पः, तत्पक्षभूतं पितरं वायुं भक्षयतीति वर्णनात् प्रत्यनीकालङ्कारः । अर्धसमछन्दसि ' आख्यातकीन (मवृत्तम् । तल्लक्षणं वृत्तरत्नाकरे उक्तमस्ति । तद्यथा
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy