________________
214
अलङ्कारराघवे
॥ अथ 'प्रत्यनीकाालङ्कारः॥ प्रतिपक्षे दुःसन्धे 'तदीयतिरस्कारस्यास्य व्याघातानन्तरं बुद्धिःस्थत्वमिति प्रासङ्गिकीत्यवान्तरसङ्गतिः । लोकन्यायमूलत्वात् पेटिकासङ्गतिः ।
- ननु -
'प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम्'
इत्यलकारसर्वस्वकारः । 'प्रतिपक्षमशक्तेन प्रतिकतुं तिरस्क्रिया। या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥'
.. इति काव्यप्रकाशकारः । 'बलिनं जेतुमनीशः कोऽपि तदीयं कृशं तिरस्कुरुते । अन्य कमपि जघन्यो यत्राहुः प्रत्यनीकमिदम् ॥'
इति विद्याधरः।
'प्रत्यनीकालङ्कारे काव्यप्रकाशकारलक्षणतः आरभ्य 'अनुमानालङ्कारमाहत्य तावत्पर्यन्तभागः 'त' प्रतौ परिकरानन्तरं दृश्यते । व्याघातानन्तरमपि प्रत्यनीकालङ्कारो दृश्यते । एवमेव परिकरालङ्कारपरिकरांकुरालङ्कारयोर्मध्ये प्रत्यनीकानुमानालङ्कारौ दृश्यते । तथा प्रत्यनीकालङ्कारस्य आरम्भे 'अप्रत्यक्षस्य भूतार्थादेः प्रत्यक्षरूपात् यथाप्रतीतिविषयत्वरूपव्याघातानन्तरं प्रतिपक्षे दुःसन्धे तदीयतिरस्कारस्य अन्यथाकरणरूपत्वात् व्याघातानन्तरं तस्य बुद्धिःस्थत्वमिति' असंबद्धभागः परिदृश्यते । सर्वोऽप्ययं दोषः प्रामादिकः इति संभाव्य
समीचीनतया सङ्कलितः, संशोधितश्च । ' 'तदीयतिरस्कारस्यान्यथाकरणरूपत्वात् व्याघातानन्तरमिति' _ 'न'
प्रतो वर्तते । तत्र 'अन्यथाकरणरूपत्वात् ' इति भागः परित्यक्तः ।