SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 213 ' यदवच्छेददकावच्छिन्नेन येनोपायेन यद्वस्तु यथैव क्रियते तदवच्छदकावच्छिन्नेन तेनैवोपायेन तदन्येन कर्त्रा तस्यान्यथाकरणं व्याघातः । ' न च उक्तस्थले अव्याप्तिः । दृक्स्वरूपावच्छेदकावच्छिन्नदृशैव मनसिजस्य अन्यथाकरणात् । व्याघातालङ्कारप्रकरणम् 1 उदाहरणम् '' तनयेन परित्यक्तं तनयेनोपलालितम् । रघुराजकिरीटं तद्वीक्ष्या लज्जत ( कैकयी) | ? -0 'येनोपायेन यद्वस्तु यथैव क्रियते तदवच्छेदकावच्छिन्नेन – इति भागः 'त' प्रतौ लुप्तः । 2 # तनयेन भरतेन परित्यक्तं तनयेन रामेण उपलालितं वनवासानन्तरं गौरवेण स्वीकृतं तत् रघुराजकिरीटं दृष्ट्वा कैकयी लज्जितवती इति भावः । कैकयी पुत्रार्थं राज्यं याचितवती । तत्तु लब्धम् । परन्तु भरतेन नाङ्गीकृतम् । अतः तेन तत्किरीटं परित्यक्तमासीत् । वनात् प्रत्यागमनानन्तरं रामेण तत् पुनः स्वीकृतम् । एतद्दृष्ट्वा - मया यत्कृतं तदन्यथाऽभवत् इति लज्जितवती कैकयी ' इति फलितोऽर्थः । ( 3 ''त' प्रतौ ' रैकया' इत्यशुद्धः पाठः अस्ति । 'न' प्रतौ 'तेनया ' इत्यस्ति । सोऽप्यशुद्धः । स तु ' कैकयी' इति शोधितः आवरणे प्रदत्तश्च ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy