________________
भाविकालंकारप्रकरणम्
211
नागतयोः प्रत्यक्षेणाध्यवसायाभावात् । न चायं भ्रान्तिमदलकारः । भावनाया अतस्मिन् तबुद्धिरूपत्वाभावात् । अतः सर्वालङ्कारोत्तीर्णोऽयमलङ्कारः । उदाहरणम् - - -
'नवरत्नखण्डखचितं हिरण्मयं
रघुवीरपाणितल भूषणं धनुः । किमु वर्णये शरमुखे यथाहिते
[.... .... ] बिन्दुरभवत्पयोनिधिः ।। अत्र पयोनिधिः श्रीरामशरमुखे स्वल्पजलबिन्दुरभवदित्यद्भुतवर्णनया तादृशभावनायां प्रत्यक्षवत्प्रतीतिः। .. .
॥ अथ व्याघातालङ्कारः ।। अप्रत्यक्षस्य भूतार्थादेः प्रत्यक्षरूपात् यथाप्रतीतिविषयत्वरूपभाविकानन्तरम् एकेनैवोपायेनान्यथाकरणरूपव्याघातालङ्कारस्य बुद्धिःस्थत्वात् प्रसङ्गः एव पेटिकायामवान्तरे च सङ्गतिः । ननु - 'यद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥ इति काव्यप्रकाशकारः । 'अतिजगतीच्छन्दसि मजुभाषिणीवृत्ते पद्यमिदमस्ति 'सजसा जगौ
भवति मजुभाषिणी' इति तल्लक्षणं वृत्तरत्नाकरे । * 'त' प्रतौ 'वितलभूषणम्' इत्यस्ति । तत्र अक्षरमेकमधिकमिति कृत्वा
'वि' इत्यक्षरं त्यक्तम् । ''त' प्रतौ 'तनुतो बिन्दुरभवत् ' इति दृश्यते । 'तनुतेऽल्पबिन्दुः' इति कृतेऽपि तनुते इति क्रियापदस्य वैयर्थ्य भवति । अतः तत्र रिक्तस्थानं दत्तम् ।