________________
210
'प्रत्यक्षा इव यद्भवाः क्रियन्ते भूतभाविनः '
"
6
भूतस्य भाविनो वा प्रत्यक्षायमाणतार्थस्य । विलसति सुतर मेतन्निगद्यते भाविकं कविभिः ||
"
इति काव्यप्रकाशकारः ।
अतीतानागतयोः प्रत्यक्षायमाणत्वम्' इत्यलङ्कारसर्वस्वकारः ।
'प्रत्यक्षायमाणत्वमर्थानां भूतभाविनाम् । तद्भाविकमिति प्रोक्तं भावोऽत्रास्ति कवेरपि || '
अलङ्कारराघवे
(
इति विद्याधरः ।
इति साहित्यचिन्तामणिकारः ।
"
अतीतानागते यत्र प्रत्यक्षे इव लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ इति विद्यानाथः । तत्र सर्वत्र स्वभावोक्तावतिव्याप्तिः । तत्राप्यद्भुतयथावद्वस्तुवर्णनात् भूतभाविनोरपि प्रत्यक्षायमाणत्वसंभवात् । दुर्निर्वचमिति चेदत्रोच्यते
तस्माद्भाविकालङ्कारलक्षणं
6
' अद्भुतार्थकथनादद्भुतार्थत्वेनाप्रत्यक्षपदार्थस्य प्रत्यक्षायमात्वं भाविकम्' इति लक्षणनिष्कर्षः । न च स्वभावोक्तावतिव्याप्तिः । 'स्वभावोक्तौ स्वभाववर्णनत्वेनैव प्रत्यक्षायमाणत्वात् अद्भुतार्थत्वेन प्रत्यक्षाय - माणत्वाभावात् । अत एव नेयं स्वभावोक्तिः । न चेयमुत्प्रेक्षा । अतीता
1
न चेयं स्वभावोक्तिः । तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षाय - माणता । इह त्वस्याद्भुतत्वेन । नापि रसवदाद्यलङ्कारः । तत्र विभावानुभावाद्यनुसन्धानेन रसादेर्भाव्यत्वम् । न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा । अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात् । न चायं भ्रान्तिमदलङ्कारः । भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । (प्रतापरुद्रये - भाविकालङ्कारप्रकरणे)