________________
पर्यायालङ्कारप्रकरणम्
209
i) तत्र प्रथमो यथा --
इक्ष्वाकुमूर्ध्नि यददर्शि ततः ककुत्स्थ
शीर्षे ततोऽपि सगरक्षितिपोत्तमाङ्गे । पश्चाद्रघोः शिरसि शीग्रंथवा'जमूनोः
- रामस्य मूर्धनि किरीटमिदं विभाति ॥ अत्र एकस्य किरीटस्य क्रमेण अनेकत्र वर्तनम् । j) द्वितीयो यथा -
भूषितं रघुनाथस्य यदासीत्पीतवाससा ।
कटीतटं तदाभाति वल्कले सपरिष्कृतम् || अत्र पीताम्बरवल्कलयोरनेकाधेययोः एकाधारे वर्तनम् ।
॥ अथ भाविकालंकारः ॥ अद्भुतार्थवर्णनेन परोक्षस्यापि प्रत्यक्षायमाणत्वस्य लोके सिद्धत्वाल्लोकन्यायपेटिकायां सङ्गतिः। पूर्वम् एकस्याधेयस्य अनेकाधार'वर्तनेऽप्याश्चर्यसंस्पर्शात् तदनन्तरमद्भुतार्थकथनरूपभाविकालङ्कारनिरूपणमुचितमित्यवान्तरसङ्गतिः ।
' अत्र रघोरनन्तरं तत्पुत्रस्य अजस्य शिरसि, ततः तत्सुतस्य दशरथस्य
शिरसि, ततः रामशिरसि किरीटं विभाति इति क्रमः विवक्षितः । किन्त्वत्र रघोरनन्तरम् अजसूनोः इत्यस्ति । मध्ये अजः त्यक्तः । अथापि 'अजसूनोः' इत्यनेनैव अजः, तत्सुतः दशरथः इति विभावनीयम् । 'वसन्ततिलकावृत्तम् । ''वर्तनेऽप्यस्याश्च' इति 'त' प्रतौ । एतदनन्तरं 'संस्पर्शात्' इत्यारभ्य
अतीतानागतयोः' इत्यन्तो भागः 'त' प्रतौ लुप्तश्च ।