SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 208 अलङ्कारराघवे 'क्रमेणैकमनेकस्मिन् आधारे वर्तते यदि । एकस्मिन्नथवानेक पर्यायालंकृतिविधा ।' इति विद्यानाथः । ___ तत्र सर्वत्र वक्तव्यम् । किं क्रमेण एकस्य आधेयस्य अनेकस्मिन्नाधारे' वर्तनं पर्यायः ? किं च एकस्मिन्नाधारे अनेकस्य वर्तनं वा ? 'समुच्चितमुभयं वा ? अन्यतरद्वा । नाद्यद्वितीयौ । परस्पमव्याप्तेः । न तृतीयः । असम्भवात् । न चतुर्थः । अन्यतरशब्दार्थस्य अनिर्वचनात् । तस्मात् पर्यायालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - एकत्वाधिकरणत्वे सत्यनेकत्वानधिकरणाधेयकस्य वर्तनं पर्यायः' इति लक्षणनिष्कर्षः । तत्र अनेकाधेये विशेष्यसत्वेऽपि विशेषणासत्वात् विशिष्टव्यतिरेकानुगतिः। एकाधेये विशेषणसत्वेऽपि विशेष्याभावात् तदनुगतिर्द्रष्टव्या । स द्विविधः । एकस्याऽऽधेयस्य अनेकस्याऽऽधेयस्य अनेकाऽऽधारे क्रमेण वर्तनमेकः पर्यायः । एकस्मिन्नाधारे अनेकस्य आधेयस्य 'वर्तनं द्वितीय इति । उन्नाधारे च वर्तनं - न * समुच्चितयोर्वा - त ' 'एकत्वाधिकरणत्वे' इत्यारभ्य लक्षणनिष्कर्षः इत्यन्तो भागः 'त' प्रतौ नास्ति । स तु लुप्तः । एवमेव 'तत्र अनेकाधेये' इत्यारभ्य तदनुगतिर्द्रष्टव्या' इत्यन्तभागस्थले एवं परिदृश्यते – 'एकाधेये विशेषणसत्वेऽपि विशेष्याभावात् तदनुगतिर्द्रष्टव्या । एवमनेकाधारे विशेष्यसत्वेऽपि विशेषणासत्वात् विशिष्टव्यतिरेकानुगतिः । एकाधारे विशेषणविशष्योभयाभावात्तदनुगतिः द्रष्टव्या' इति । 'दर्शनं - त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy