SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ परिवृत्त्यलङ्कारप्रकरणम् 207 ii) न्यूनेनाधिकपरिवृत्तियथा - 'रघुनाथाय देवाय प्रदाय वनमालिकाम् । भक्तो जनस्ततो याति तदीयं हारमण्डलम् ॥" iii) अधिकेन न्यूनपरिवृत्तियथा - . 'रामः कदापि सीतायै कामगोष्ठीकृतादरः ॥ दत्त्वा हारं निजं पुष्पमाला प्रत्यग्रहीत्ततः ॥ अत्र हारापेक्षया पुष्पमालिकायां न्यूनत्वम् । __ -0 || अथ पर्यायालङ्कारः ॥ अस्यापि 'पूर्ववत्पेटिकासङ्गतिः । . शिष्टेतरापेक्षया भेदान्तरवत्वात अवान्तरसङ्गतिः। ननु - . एक क्रमेणानेकस्मिन् पर्यायोज्ज्यस्ततोऽन्यथा' - इति काव्यप्रकाशकारः । 'एकमनेकस्मिन्ननेकमेकस्मिन् क्रमेण पर्याय . इत्यलङ्कारसर्वस्वकारः । 'एकस्मिन् यदने क्रमादनेकत्र वा भवत्येकम् । तमलंकारनिरूपणनिपुणाः पर्यायमब्रुवत ॥' इति विद्याधरः । 'एकस्यानेकवृत्तित्वमनेकस्यैकवृत्तिता। यत्र क्रमेण भवति स पर्याय उदाहृतः ॥' - इति साहित्यचिन्तामणिकारः । ' पूर्ववत्वेऽपि पेटिकासङ्गतिः - त ' एकस्मिन्नाधारेऽनेकमाधेयं यत् स द्वितीयः पर्यायः - इति अलङ्कार सर्वस्वे पर्यायस्य द्वितीयभेदोऽपि प्रदर्शितः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy