________________
206
अलङ्कारराघवे
'समन्यूनाधिकैरथैः कस्यचिद्वस्तुनो भवेत् । । यथा विनिमयः सोऽयं परिवृत्तिस्विधा मता ||' .
। इति साहित्यचिन्तामणिकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनः परिवृत्तिरसौ मता ||'
इति विद्यानाथः । तत्र सर्वत्र तक्तव्यम् । समेन समविनिमयो वा परिवृत्तिः । न्यूनेनाधिकविनिमयो वा, अधिकेन न्यूनविनिमयो वा। उक्तसर्वविनिमयानां समुच्चयो वा। तेषामन्यतरो वा । नाद्यद्वितीयतृतीयाः। परस्पराव्याप्तेः । न चतुर्थः । असम्भवात् । नापि पञ्चमः । अन्यतरशब्दार्थानिर्वचनात् । तस्मात्परिवृत्त्यलकारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'यस्य कस्यचिद्वस्तुनो येन केनापि विनिमयः परिवृत्तिः'
इति सामान्यलक्षणम् । यद्वा - "समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य समत्वे सति न्यनत्वानधिकरणेन वस्तुना विनिमयः परिवृत्तिः'
.......इति लक्षणनिष्कर्षः । अत्र समत्वाधिकरणत्वे सति न्यूनत्वाधिकत्वानधिकरणस्य समादिष्वेकस्य समत्वे सति न्यूनत्वाधिकत्वानधिकरणेन समादिष्वेकेन समेन विनिमयः परिवृत्तिरिति फलितोऽर्थः। समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिरिति त्रिविधेति यावत् । i) अत्र समेन समपरिवृत्तिर्यथा -
'कौतुकाविष्टहृदयौ मैथिलीरघुनन्दनौ । परिवृत्ति वितन्वाते मिथः स्वस्वकिरीटयोः ॥'