________________
204
अलङ्कारराघवे
'समृद्धिमद्वस्तुवर्णनमुदात्तम्' इत्यलङ्कारसर्वस्वकारः । 'अभिमतमेतदुदात्त समृद्धिमद्वस्तुवर्णनं यत्र'
- इति विद्याधरः । 'तदुदात्तं महत्वं यत् विभूतेराश्रयस्य च'
इति साहित्यचिन्तामणिकारः। । 'तदुदात्तं भवेद्यत्र समृद्ध वस्तु वर्ण्यते' इति विद्यानाथः ।
तत्र द्वितीयतृतीयपञ्चमलक्षणानि न युक्तानि । महापुरुषचरितस्याङ्गत्व रूपोदात्ते अव्याप्तेः । 'अन्येऽपि वक्तव्यम् । किमेकं लक्षणं ? किं वा लक्षणद्वयम् ? नाद्यः । असंभवप्रसङ्गात् । नेतरः । प्रथमलक्षणस्य महताम् अंगत्व रूपोदात्ते अव्याप्तेः। द्वितीये समृद्धिमद्वस्तुवर्णनरूपे तस्मिन्नव्याप्तेः। अत एव न साहित्यचिन्तामणिकारलक्षणमपि युक्तम् । तस्मात् उदात्तालङ्ककारलक्षण दुर्निर्वचमिति चेत् अत्रोच्यते -
'समृद्धिमद्वस्तुवर्णनरूपत्वाधिकरणत्वे सति महापुरुषचरितस्याङ्गत्वरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणालंकारः उदात्तालंकारः।'
अत्र महापुरुषचरितरूपोदात्ते विशेष्यसत्वेऽपि विशेषणाभावाल्लक्षणानुगतिः । समृद्धिमद्वर्णनवस्तुरूपोदात्ते विशेषणसत्वेऽपि विशेष्याभावाल्लक्षणानुगतिः । ..
तत्र समृद्धिमद्वस्तुवर्णनरूपोदात्तस्य उदाहरणम् - 'ये ध्यायन्ति रघूत्तमं मणिमयालंकारसंशोमितं तेषां धाग्नि धनाधिनाथनिधयस्तिष्ठन्ति हित्वालकाम् ।। 'अन्येऽपि' इत्यतः 'द्वितीये' इति पर्यन्तं स्थितः भागः 'न' प्रतौ लुप्तः । 'द्वितीयलक्षणस्य' इत्येवं पदं 'न' प्रतौ दृश्यते च ।