________________
सूक्ष्मालङ्कारप्रकरणम्
203
'गदितमिदं संलक्षितसूक्ष्मार्थस्य प्रकाशनं सूक्ष्मम् ।
इति विद्याधरः । 'इङ्गिताकारलक्ष्येऽर्थे यत्र धर्मेण केनचित् । गूढं प्रकाश्यते तेन तत्सूक्ष्ममिति कथ्यते ॥'
इति साहित्यचिन्तामणिकारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्मः उच्यते' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् -
'परिमृदित'चम्पकालिं दूत्याऽऽनीता निजान्तिके दृष्ट्वा ।
रामः कङ्कणमाधात् आरादनुवलितशाखाग्रे ॥' - अत्र मिथिलोद्यानलताविटपे ककणबन्धव्यापारेण परिमृदितचम्पकदलमालिकया सीताविरहक्लेशं प्रकाशयन्त्या दूत्या रामेण सीतापाणिबन्धमहोत्सवः प्रकाशितः । सङ्केतोऽपि लोकन्याय एवेत्यय लोकन्यायमूल इति द्रष्टव्यम् ।
|| अथ उदात्तालङ्कारः ।। अस्यापि लोकन्यायमूलत्वात् पेटिकासङ्गतिः । इतरालङ्कारापेक्षया समृद्धवस्तुवर्णनरूपेऽस्मिन् अलङ्कारे सर्वजनानां जिज्ञासोदयात् तन्निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'उदात्तं वस्तुनः संपत् महतां चोपलक्षणम्'
. इति काव्यप्रकाशकारः ।
+ चम्पकालिं - चम्पकपुष्पाणाम् आलिं समूहम् अर्थात् चम्पकमालामिति । आर्यावृत्तम् ।...............