________________
202
अलङ्काररावे
i) तत्र प्रथमा यथा --- ‘कीदृश्यो रामभूषा याः प्रतीकास्तस्य सर्वतः ।
अलंकर्तुमुपागत्य जातास्तेनैव भूषिताः ॥'
अत्र रामस्य नैसर्गिकावयवरामणीयकेन भूषितानि भूषणानि विश्वजननेत्ररमणीयानि जातानीति स्तुतिर्गम्यते । ii) द्वितीया यथा -
'भवन्ति रामस्य विभूषणानि
__संप्राप्तभाग्यातिशयानि यस्मात् । त्यक्तानि तेनात्र विवासकाले
सुखेन पेट्या वसतिं लभन्ते' ||' अत्र स्तुत्या वनवासकाले रामत्यक्तानि विभूषणानि न चारुतां भजन्त इति निन्दा प्रतीयते ।
'केचित्तु निन्दया स्तुतिः व्याजस्तुत्यलङ्कारः, स्तुत्या निन्दा व्याजनिन्दालंकारः' इत्यलङ्कारभेदं कल्पयन्ति । तत्राप्युक्तमेव उदाहरणद्वयं द्रष्टव्यम् ।
।। अथ सूक्ष्मालङ्कारः ॥ अथ न्यायपेटिकानां निरूपणे प्राप्ते तत्रापि लोकन्यायपेटिकायाः विश्वजनीनत्वेन बलवत्वात् सैव प्रथममिति पेटिकयोः सङ्गतिः । तत्रापि व्याजस्तुत्यनन्तरं विदग्धजनमात्रविज्ञेयत्वसाम्यात् सूक्ष्मालङ्कारो निरूप्यते ।
तत्र - 'संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्' इत्यलङ्कारसर्वस्वकारः । 'उपजातिवृत्तमिदं पद्यम् ।