________________
201:
व्याजस्तुत्यलंकारप्रकरणम्
''स्तुतिर्वा निन्दया स्तुत्या निन्दा वा यत्र गम्यते । व्याजस्तुतिरियं प्रोक्ता यथार्था व्याजकल्पना ॥'
इति साहित्यचिन्तामणिकारः । 'निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते । स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता ॥' इति विद्यानाथः ।
तत्र सर्वत्र वक्तव्यं निन्दया स्तुतिर्वा व्याजस्तुतिः, स्तुत्या निन्दा वा, समुच्चितोभयं वा, अन्यतरद्वा । नाद्यः । स्तुत्या निन्दारूपव्याजस्तुतावव्याप्तिः। न द्वितीयः । निन्दया स्तुतिरूपव्याजस्तुतावव्याप्तिः । न तृतीयः । असम्भवप्रसङ्गात् । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् । ननु तर्हि व्याजेन स्तुतिः व्याजस्तुतिरिति सामान्यलक्षणमस्तूभयानुगतम् , एकत्र निन्दाव्याजेन स्तुतेः, अन्यत्र स्तुतौ तात्पर्याभावादिति चेत्तर्हि पृथिवी पृथिवीतिवत् पर्यायत्वापत्तिः । तस्मात् व्याजस्तुत्यलङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते -
'निन्दया स्तुतिरूपत्वे सति स्तुत्या निन्दारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणमलंकारो व्याजस्तुतिः'
इति लक्षणनिष्कर्षः । अत्र स्तुत्या निन्दारूपव्याजस्तुतौ "विशेष्यसत्वेऽपि विशेषणाभावात् लक्षणानुगतिः । निन्दया स्तुतिरूपव्याजस्तुतौ विशेषणसत्वेऽपि विशेष्याभावात् लक्षणानुगतिद्रष्टव्या । तत्र निन्दामुखन स्तुतिः प्रथमा व्याजस्तुतिः, स्तुतिमुखेन निन्दा द्वितीया व्याजस्तुतिः । 1 'स्तुतिर्वा निन्दया' इत्यनन्तरं 'स्तुतिवा व्याजस्तुति 'रिति पर्यन्तं,
मध्ये कश्चन भागः 'न' प्रतौ लुप्तः । * विशेष्यसत्वे सत्यन्तविशेषणाभावात्- -न 'स्ततिः एका व्याजस्तुतिः-न .. .