________________
200
भलङ्कारराघवे
___iv) कार्यात् कारणप्रतिपत्तिरूपा यथा -
___'खद्योत एव खद्योतो जायते किमु तद्ग्रहः । - रामभद्रे समायाते दिव्याभरणभूषिते ||'
'अत्र कार्यभूतेन भानोः खद्योतभावेन कारणभूतो रामस्य आभरणप्रकाशातिशयः प्रस्तुतः प्रतीयते। . v) कारणात् कार्यप्रतिपत्तिरूपा यथा -
".... .... साम्प्रतं विस्मयं किमु भवान् प्रपद्यते। दिव्यभूषणविभूषिताङ्गकं राममेव सुतरामुपास्महे ॥'
अत्र कुतस्तवेदृशी भूषणसम्पत्तिरिति पृच्छते सुजनाय कारणभूतं सदिव्याभरणरामचन्द्रोपासनमभिहितम् ।
॥ अथ व्याजस्तुत्यलंकारः || अस्य गम्यार्थत्वेन पेटिकायां सङ्गतिः । 'पारिशेषादवान्तरसङ्गतिः । * व्याजस्तुतिः मुखे निन्दा स्तुतिर्वा रूढिरन्यथा'
इति काव्यप्रकाशकारः।
''अत्र कार्यभूतेन ' इति पदद्वयं 'न' प्रतौ नास्ति ।। 'अस्मिन् आर्यापद्ये आरम्भे -- 'वीक्ष्य नः सुजनसङ्गं साम्प्रतं' इति 'त' प्रतौ दृश्यते । 'न' प्रतौ 'वीक्ष्य नः सुजन नरेन्द्रं साम्प्रतम्' इति वर्तते । सर्वत्र अयं पाठः दोषपूर्णः, शोधयितुमशक्य इति
अधोभागे दत्तः । 'पारिशेषीत्यवान्तरसङ्गतिः-न