________________
अप्रस्तुतप्रशालङ्कारप्रकरणम्
199
शृणुत विकस्वरवारिज. सनिधिकलहंससङ्घविस्तानि' ॥
अत्र कलहंससङ्घवृत्तान्तेन निरर्थकशब्दश्रवणं विहाय बालरामभद्रस्य पादारविन्दमणिनूंपुरध्वनिरेव श्रोतव्य इति प्रतीयते ।
ii) सामान्यात् विशेषप्रतिपत्तिरूपाऽप्रस्तुतप्रशंसा यथा -
'प्रायेण भूमिपालाः प्रेमातिशयस्य गोचरे स्वजने । "स्वां प्रेषयन्ति मुद्रां प्राणप्रायेण कार्यसंसिद्धये ॥'
अत्र सीतया सामान्येऽभिहिते हनूमता मां प्रति मुद्रिका प्रेषिता । नूनमयं रामस्य प्राणकल्पो दूतः । मयि च रामस्य प्रेमातिशयोऽनुवर्तते । मात्प्राप्तिरूपकार्यसिद्धिश्च भविष्यतीति विशेषण प्रस्तुतं प्रतीयते। हनूमत्वादिकं प्रस्तुतत्वावच्छेदको धर्मः । तदन्यो धर्मः प्राणप्रायदूतत्वादिकम् । तदवच्छेदेन प्रतीयमानपदार्थात् प्राणप्रायदूतादेः प्रस्तुतहनूमदादिप्रतिपत्तिरिति न लक्षणाव्याप्तिः। iii) विशेषात् सामन्यप्रतिपत्तिरूपा यथा -
'औदार्य गाम्भीर्य शौर्य सौन्दर्यमप्यकातर्यम् ।
'धैर्यामात्सर्यकला रामं शृणु सुजन ! भूषयन्ति सदा ॥'
अत्र औदार्यादिगुणविशेषाभिधानेन विवक्षितानन्तकल्याणगुणभूषणत्वं प्रस्तुतं रामे प्रतीयते ।
- आर्यावृत्तमिदं पद्यम् । * स्वाः प्रेषयन्ति मुद्राः प्राणप्रायेण-त 'आर्यावृत्तम् ।। "धैर्य सर्वकलारामम्-त 'आर्यावृत्तम् ।