SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 198 अलंकारराघवे नियन्त्रितत्वमिति चेन्मैवम् । सामान्यातू विशेषप्रतिपत्तिरूपाप्रस्तुतप्रशंसायामव्याप्तेः । तत्र सामान्ये प्रस्तुते विशेषस्यान्तर्भूतत्वेन अप्रस्तुताभिधानेनैव प्रस्तुतप्रतिपत्तरभावात् । न हि नीलपीतघटादिव्यतिरेकेण सामान्यभूतो घटोऽन्योऽस्ति । 'नन्वप्रस्तुतान्तर्भावे प्रस्तुतमप्यप्रस्तुतमेव स्यात् इति चेत्तर्हि प्रस्तुतस्वभावेन अप्रस्तुतानामपि प्रस्तुतत्वं किं न स्यात् ? नन्वप्रस्तुतानां सामान्यशब्दोपस्थितानां बहुत्वात् प्रस्तुतैकव्यक्तिविशेषस्यैवाप्रस्तुतत्वमिति चेन्न । यत्किञ्चित्कार्य सिषाधयिषु पुरुषमालोक्य भवदभिन्ना वयं कार्य साधयाम इति बहूनामप्येकपुरुषाभेदाभिमानेन कार्यसाधकत्वदर्शनात् अप्रस्तुतबहूनामपि प्रस्तुतत्वसंभवात् । ननु तथापि वस्तुतो बहुपुरुषाणामेकपुरुषाभेदो नास्त्येवेति चेत्तर्हि वस्तुतः प्रस्तुतस्याप्रस्तुतत्वं नास्तीति प्रागुक्ताव्याप्तिरनपायैव । तमादप्रस्तुतप्रशंसालक्षणं दुनिर्वचमिति चेदत्रोच्यते - 'प्रस्तुतत्वावच्छेदकधर्मप्रतियोगिकान्योन्याभावाधिकरणधर्मा. वच्छेदकेन प्रतीयमानपदार्थात् प्रस्तुतप्रतिपत्तिरप्रस्तुतप्रशंसा' इति लक्षणनिष्कर्षः । उदाहरणे एव लक्षणार्थः स्फुटीभविष्यति । सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन वाऽप्रस्तुतप्रतिपत्तिः पञ्चविधा भवति । न च कार्यात् कारणप्रतीतावनुमानालङ्कारशङ्का कार्या। तत्र प्रत्याय्यप्रत्यायकयोरुभयोरपि प्राकरणिकत्वात् । नाप्ययं ध्वनिः । प्रतीयमानत्य वाच्यसिद्धयङ्गत्वात् । i) तत्र सारूप्येण अप्रस्तुतप्रशंसा यथा - , मनुजाः स्वकर्णविवरैः ..... पामरविस्तानि किं निशम्यन्ते । 'नन्वप्रस्तुतस्यान्तर्भावादेव प्रस्तुतमपि - न * पामरविरुद्धानि --न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy