________________
अप्रस्तुतप्रशंसालङ्कारप्रकरणम्
19
॥ अथाप्रस्तुतप्रशंसा || अस्य गम्यमानप्रस्तुतत्वात् गम्यार्थपेटिकायां सङ्गतिः। व्याजस्तुत्यपेक्षया बहुभेदवत्वात् प्रथमस्तन्निरूपणम् उचितमित्यवान्तरसङ्गतिः । 'अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया'
इति काव्यप्रकाशकारः । 'सामान्यविशेषत्वे सारूप्ये कार्यकारणत्वे च । अप्रस्तुतप्रशंसा निर्दिष्टा प्रस्तुतस्य गम्यत्वे ||"
इति विद्याधरः । • अप्रस्तुतप्रशंसा त्वप्रस्तुतात्प्रस्तुतस्य धीः । कार्यकारणभावाद्यैः यत्र साम्यात् सपञ्चधा ।'
इति साहित्यचिन्तामणिकारः ।। 'अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ इति विद्यानाथः ।
तत्र विद्याधरादिषु लक्षणेषु वक्तव्यम् । सारून्यादिनियन्त्रितत्वं किं लक्षणान्तर्भूत, किं वानन्तभूतम् । आये सारूप्यसामान्यविशेषभावकार्यकारणभावानामेकैकनियन्त्रितत्वं, किं वा समुच्चितनियन्त्रितत्वं ? आहोस्वित् अन्यतरनियन्त्रितत्वं वा ? नमयः एकैकनियन्त्रितत्वे तदन्यतरनियन्त्रिताप्रस्तुतप्रशंसायामव्याप्तेः । न द्वितीयः । असंभवप्रङ्गात् । न तृतीयः । अन्यतरशब्दार्थानिरूपणात् ।
नन्वस्तु तर्हि काव्यप्रकाशकारलक्षणमेव । तस्यायमर्थः । अप्राकरणिकाभिधानेन प्राकरणिकस्याक्षेपः अप्रस्तुतप्रशंसेत्यनन्तर्भूतमेव सारूप्यादि
इति दृश्यते । भागोऽयं दोषपूर्णः इति प्रतिभाति । सर्वासु प्रतिषु एवमेवास्ति । गत्यन्तराभावात् यथाप्रति पाठः दत्तः ।