SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 196 अलङ्कारराघवे अत्र कैकेय्या तु मम किरीटधारणं सम्पादितम् । दशरथोऽपि स्वर्ग गतः इत्युक्त्या कृतम् इतःपरं वचोभङ्गया इत्यंशान्तरनिषेधात् ('महापकीर्तिकरं किरीटधारणं ममानिष्टतमम् ।) त्वयैव राजतिलकेन किरीटधारणं कर्तव्यमिति विशेषः प्रतीयते । ____v) अनिष्टविव्याभासोऽपि आक्षेपः इत्यभ्युपगम्यते । यथा इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्याभासत्वम् । उदाहरणम् - 'त्वं केवलाथार्जनदीक्षितायाः श्रुत्वा वचो राघव ! मे जनन्याः । वनाद्वनान्तं यदि यासि याहि 'धत्तां किरीटं तव पेटिकैत्र ॥ अत्र भरतस्य रामवनयानविधिरनिष्टोत्पाद इव आभासे पर्यवस्यन् वनं प्रति न गन्तव्यमिति 'निषेधमाक्षिपति । यदल्पं किरीटधारणं वनयाननिषेधमेव सूचयति । - 1 ' महापकीर्तिकरम् इति उदाहरणं ममानिष्टतमम्' इति असंबन्धभाग: 'न' प्रतावस्ति । स तु 'महापकीर्तिकरं किरीटधारणं ममानिटतमम्' इति शोधितः, आवरणे दत्तश्च । 'त' प्रतौ तु 'महापकीर्तिकरम्' इत्यतः राजतिलकेन इति पर्यन्तभागः नास्ति । 'त' प्रतौ 'यत्तां किरीटं तव वेति कैव' इति अशुद्धपाठः वर्तते । 'धत्ताम्' इति 'न' प्रतिपाठः समीचीन इति स्वीकृतः । उपजातिवृत्तमिदं पद्यम् । 'तमाक्षिपति - न . ''येऽल्पाः किरीटधारणं' इति 'त' प्रतौ वर्तते । स तु अशुद्धः । 'न' प्रतो ‘यदल्पं किरीटवारणाभिधानं वनयावनिषेधमेव सूचयति'
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy