SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आक्षेपालङ्कारप्रकरणम् 195 ii) उक्तविषये कथननिषेधो यथा - 'सिंहासनमधिष्ठाय पालयानीत्यलं गिरा। . .. आभूषे राम ! पादाभ्यां 'वलमाने वने त्वयि ॥' अत्र पालयानीति, गिरा अलमित्युक्तिनिषेधाभासात् सकलभूषणालंकृतेन त्वया सिंहासने स्थातव्यमिति निषेधः प्रतीयते । iii) वक्ष्यमाणविषये सामान्यप्रतिज्ञया विशेषनिषेधो यथा - - 'विज्ञापयामि ते किश्चित् यद्वा विज्ञापनैरलम् । राम ! साकं त्वयारण्ये चरिष्यामि जटाधरः॥' अत्र विज्ञापयामीति सामान्यप्रतिज्ञया विशेषनिषेधाभासात् अवश्यं त्वया किरीटिना सिंहासने स्थातव्यमिति विशेषः प्रतीयते । _vi) अंशोक्तावंशान्तरनिषेधो यथा - त्वां विप्रवास्य रघुवंशवरेण्य मात्रा संपादित मुकुटधारण मादरान्मे । तातोऽपि राजतिलक ! त्रिदिवं गतोऽभू 'दश्रद्धया कृतमितः परमुक्तिभङ्गया ॥ वल गतौ इति धातुः। शानजन्तमिदं रूपम् । वलमाने सञ्चरमाणे सतीत्यर्थः । ' 'त' प्रतौ 'रघुवंशवरेण मात्र' इति अशुद्धपाठः अस्ति । स तु शोधितः । 'त' प्रतौ विद्यमानः 'आदरान्मा' इत्यशुद्धः पाठः 'आदरान्में' इति शोधितः । 'दश्रुव्यपाकृतमितः-त 'वसन्ततिलकावृत्तमिदं पद्यम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy