________________
194
.... अलङ्कारराघवे
यान्यतरस्य । नाद्यः । वक्ष्यमाणनिषेधाभासकथनरूपाक्षेपे अव्याप्तेः । न द्वितीयः । उक्तनिषेधाभासकथनरूपाक्षेपे अव्याप्तेः । न तृतीयः । असंभवप्रसङ्गात् । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनात् सर्वत्र अनिष्टविध्याभासरूपाक्षेपे अव्याप्तिः दुर्निर्वारा । तस्मात् आक्षेपालङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - • 'विशेषबोधाय निषेधाभासकथनरूपत्वे सत्यनिष्टविध्यामास.
रूपत्वरहितैतद्विशेषणविशेष्योभयाभावानधिकरणालंकारः
आक्षेपः' इत्येवं सामान्यलक्षणम् । अत्र विशेषणाभावात् अनिष्टविध्याभासरूपाक्षेपे लक्षणानुगतिः। अलङ्कारान्तरेऽतिव्याप्तिनिरासार्थम् एतद्विशेषणविशेष्योभयाभावानधिकरणत्वमित्युक्तम् । स द्विविधः । उक्तनिषेधाभासो, वक्ष्यमाणनिषेधाभासश्चति । उक्तनिषेधो-वस्तुनिषेधः कथननिषेध इति द्विविधः । वक्ष्यमाणनिषेधस्तु कथननिषेध एव । सोऽपि द्विविधः । सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण प्रतिषेधः । अंशोक्तावंशान्तरस्य निषेध इति । ___i) तत्र उक्तविषये वस्तुनिषेधो यथा -- ... 'अस्त्वस्मदीयकुलदैवतमत्र साक्षि
नाङ्गीकरोमि जननीवचनोक्तमर्थम् । राम ! प्रभो ! वपुषि वल्कलमावसाने
त्वय्यद्य मूर्धनि जटापटलं 'दधाने ।' अत्र मातृमुखोक्तमर्थ नाङ्गीकरोमि इति भरतस्य अङ्गीकरणरूपोक्तवस्तुनिषेधो अनुपपद्यमानः सकललोकसंरक्षणार्थ त्वया वपुषिं पीताम्बरधारणं शिरसि रत्नकिरीटधारणं च कर्तव्यमिति विशेषमाक्षिपति ।
-
'वसन्ततिलकावृत्तम् ।