SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अक्षेपालङ्कारप्रकरणम् 193 'विशेष्यस्य गम्यत्वात् गम्यार्थपेटिकायामस्य सङ्गतिः । ननु - 'निषेधो वक्तुमिष्टस्य यो विशेषामिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥' इति काव्यप्रकाशकारः । 'उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थ निषेधाभासः आक्षेपः' इति अलङ्कारसर्वस्वकारः । 'कमपि विशेष वक्तुं प्रकृतस्योक्तस्य वक्ष्यमाणस्य ।' यः प्रतिषेधाभासः कथितः सोऽयं द्विधाक्षेपः ॥' - इति विद्याधरः । 'उक्तस्य वक्ष्यमाणस्य यो विशेषामिधित्सया । निषेधाभास आक्षेपः स द्विधा परिकीर्तितः ॥' इति साहित्यचिन्तामणिकारः । "विशेषवोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् । निषेधाभासकथनमाक्षेपः स उदाहृतः ॥' इति विद्यानाथः । । तत्र सर्वत्र वक्तव्यम् । किं विशेषार्थबोधार्थम् उक्तस्य निषेधाभासकथनमाक्षेपः ? किं वा वक्ष्यमाणस्य ? अथवा समुचितयोः ? उत तदुभ 1 विशेष्यगम्यत्वात्-त,न * इत आरभ्य अर्थालङ्कारप्रकरणपरिसमाप्तिरूपग्रन्थसमाप्तिपर्यन्तं विद्यमानः भागः 'आ' प्रतौ नास्ति । स च लुप्तः । 'म' प्रतौ अर्थालङ्कारभाग एव नास्ति । 'त' प्रतौ अयंस र्वोऽपि भागः दोषपूर्णः। 'न' प्रतौ सम्यक् अस्ति । सर्वमपि यथामति संशोध्य अत्र सङ्कलितः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy