SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ vii नयुक्तिदौर्बल्यमुदाहृतीनां न मान्यमित्यादरयन्तु सन्तः । इत्युक्तम् । तथा शब्दालङ्कारप्रकरणस्य अन्ते रामाङ्कितं जगति यः शब्दालंकारजातमाद्रियते । सोऽयं विश्रुतशब्दो भवति दिगन्तेषु विश्रुतः पुरुषः ॥ इत्यप्युक्तत्वात् स्वप्नकृतभगवद्रामाज्ञानुसारेणैव ग्रन्थरत्नमिदम् 'अलङ्कारराघवम्' इति विरचितमिति ज्ञायते । अनन्यरामभक्तोयं ग्रन्थे सर्वत्र स्वभक्तिम् उदाहरणेषु समाप्तिवाक्येषु च प्रदर्शयति । दिङ्मात्रमुदा हियते । ―――― ग्रन्थारम्भे मङ्गलपद्येषु पद्यद्वयं यथा i) 'आरक्षकं भक्तजनालयानाम् अधीश्वरञ्चावनिमण्डलानाम् । आरध्यदेवं निखिलासुराणां धानुष्कमेकं हृदि धारयामः ॥ ' ii) ' सपङ्कापि कवेर्वाणी हरिनामांकिता यदि । सादरं गृह्यते सद्भिः शुक्तिमुक्तान्विता यथा ॥' इति । अर्थालंकारप्रकरणस्यान्ते - (iii) ' अर्थालंकारमयं प्रकरणमेतज्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालंकार भावमाप्नोति ॥ (iv) वाक्पूजयालंकृतिराघवाख्यया मदीया दुष्करयान्यपण्डितैः । सलक्ष्मणोऽयं परिवारवेष्टितो प्रीणातु रामः सह सीतया सदा || '
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy