________________
एवमेतैः ग्रन्थोक्तग्रन्थकारवचनैरेव तत्त्वचिन्तामणिग्रन्थस्य खण्डनात्मकः 'शास्त्रचाडामणिः' 'विवरणोज्जीविनी 'ति तट्टीका च यज्ञेश्वरकर्तृकेति निश्चितं भवति ।
_ 'अद्भुतरामः' इति नाटकमप्येकमनेन सुनिबद्धमिति अलङ्कारराघवे उद्धृतैर्वाक्यैरवगम्यते । एतन्नाटकं नाट्यप्रकरणस्य उदाहरणरूपं नाटकम् । विद्यानाथेन यथा प्रतापरुद्रीये नाटकप्रकरणस्य नाटकमेकम् उदाहरणत्वेन निर्मितं तथैव अनेनाऽपि कृतमिति ज्ञायते । अस्मिन् नाटके राम एव नायकः । सीतैव नायिका। रामस्य पराक्रमातिशयः सम्यक् वर्णितः अत्र । 'अद्भुतराम' नाटकस्य कर्ता यज्ञेश्वरदीक्षितः इत्यत्र ग्रन्थप्रमाणमेवमस्तिनाटकप्रस्तावनायां सूत्रधारः एवं वदति - 5) विनिर्मितं श्रीचरकूरिकोण्डधीवरेण्य यज्ञमौळिना,
रसज्ञरम्यरसपोषभूषितं प्रयुज्यतामद्भुतरामनाटकम् ।' (सहर्षम् ). अस्मदभिनयकौशलानुरूपमेव नाटकमभ्यनुज्ञातं सामाजिकैः । यत्र च -
श्रीरामभक्तिभाजा चेतसि रमणीयमखिललोकानाम् ।
अत्यद्भुतं चरित्रं विनिबन्धं साधु रामचन्द्रस्य || इति । ii) नाटकसमाप्तौ-' इति श्री चरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वर. दीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचितेऽलङ्कारराघवे दशरूपकप्रकरणं संपूर्णम्' इत्युक्तम् । अतः ‘ अद्भुतरामनाटककर्ता यज्ञेश्वरदीक्षित' इत्यवगम्यते । . 'अलकारराघवम्' इति नामकरणौचित्यम्
ग्रन्थस्यास्य ' अलङ्कारराधवम् ' इति नाम अङ्कितम् । अत्रापि ग्रन्थ. कारवचनमेव प्रमाणम् । उपोद्घातप्रकरणस्य आरम्भे - . रामाज्ञया स्वमनिरूढया मे
विनिर्मितेऽलंकृतिराघवेऽस्मिन् ।