SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सविकल्पकालङ्कारप्रकरणम् 189 । यत्र विशेषणविशेष्ययोः परस्परवैशिष्टयं यस्यां बुद्धौ भासते सा बुद्धिः सविकल्पकालंकारः । संकृदित्यनेन धारावाहिकालंकारयावृत्तिः । वैशिष्ट्य. मित्यनेन निर्विकल्पकालंकारव्यावृत्तिः । उदाहरणम् - 'रामः क्षत्रियडिम्भा कण्ठे शार्दलनखवराभरणः । चापी कौशिकसेकी नीलः कस्येह नो मनो हरति ॥' अत्र नामजातिव्यक्रियागुणवैशिष्टयमुक्तमिति ध्येयम् । नात्र खावोक्तिशावकाशः। अन्यूनानतिरिक्तत्वेन स्वभाववर्णनरूपत्वाभावात् । || अथ निर्विकल्पकालङ्कारः।। अस्य पूर्ववैपरीत्येन अवान्तरसङ्गतिः । प्रसक्तानुप्रसक्तिरेव पेटिका. सङ्गतिः । ‘स्वरूपमात्रं वैशिष्टयं विना गृह्णाति या मतिः । असौ कविमिराख्यातोऽलङ्कारो निर्विकल्पकः ॥' अत्र वैशिष्टयमन्तरेण विशेषणविशेष्यस्वरूपमात्रमेव गृह्यते असौ निर्विकल्पकालंकारः। उदाहरणम् -- 'निरवयवं निर्दष्टं निर्निष्पदं च निर्गुणज्ञानम् । आत्मनि रामानन्दं पश्यन्ति कमपि योगिनो कन्याः ॥' ....... निर - आर्यावृत्तमिदम् । 'निर्दोष - न 'आर्यावृत्तम् । ,
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy