SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ परिकरालङ्कारप्रकरणम् 187 'उदाहरणम् - 'रत्नाकरादभ्युदितैरदोषैः स्थूलै प्रकाशमणिमिः कृतानाम् । विभूषणानां रघुनायकस्य को मूल्यमुद्भावयितुं 'समर्थः ।। अत्र रत्नाकरादभ्युदितैरित्यादिविशेषणानि सामिप्रायाणि । परि. करोदाहरणे विशेषणबहुत्वं न विवक्षितम् । प्रन्थान्तराणां तथोदाहरणं चारुत्वातिशयार्थमित्यवगन्तव्यम् । -0 ॥ अथ परिकरांकुरालङ्कारः ॥ अस्य प्रसक्तानुप्रसक्ती पेटिकायां सङ्गतिः । परिकरवैपरीत्येनास्य प्रवृत्तिरित्यवान्तरसङ्गतिः । तत्र - 'तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र । स परिकरांकुरनामालंकारः कीर्तितः कविमिः ॥' इत्येकावळीकारः । 'रत्नाकरात्' इत्युदाहरणम् 'त' प्रतौ अनुमानालकारानन्तरं दृश्यते । अयं च दोषः प्रामादिकः । तत्रापि 'प्रत्यनीकानुमानालकारयोः लक्षणादिकं परिकरानन्तरं दृश्यते । व्याघातानन्तरमपि वर्तते । अयं च दोषः समीचीनः कृतः । अत्र उत्तरोत्तरं च समीचीनभागः सङ्कलितः । । मूल्यमुद्रावयितु - त * उपजातिवृत्तमिदं पद्यम् । • 'साभिप्राये विशेष्ये तु भवेत्परिकरांकुरः' (चन्द्रालोकः)
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy