________________
अलंकारराघवे
व्याप्तिः : स्यात् । तत्रापि विशेषणानां प्रस्तुताप्रस्तुतावगमनाभिप्रायेण प्रयुक्तत्वात् । ननु अश्लिष्टव्यावर्तकानां सामिप्रायत्वे परिकर इति संमतमिति चेन्न । साधारणविशेषणघटितसमासोक्तावतिव्या त्यापत्तेः । ननु अश्लिष्टविशेषणानां न प्रकृतमात्राभिप्रायत्वे परिकर इति नोक्तदोष:, तत्र विशेषणानामप्रकृताभिप्रायत्वादिति चेत् तर्हि प्रकृततुल्ययोगितायामतिव्याप्तिः ।
186
तत्र प्रकृतमात्रौपम्यस्य साभिप्रायेण विशेषणानां प्रयोगात् । नन्वौपम्यत्वाभावे सतीत्यपि विशेष्यत इति चेत्तर्हि अप्रकृताभिप्राय विशेषणपरिकरे अव्याप्तिः स्यात् । ननु तर्हि गयमाणप्रतीयमानार्थाश्लिष्ट विशेषणानां साभिप्रायत्वे परिकर इति विवक्षितमिति समासोक्तत्यादावतिव्याप्तिरिति चेदुच्यते । किमभिप्रायज्ञानतात्पर्य गर्ह्यमाणप्रतीयमानार्थत्वं किं वा तदनन्तरम् । नाद्यः । समासोक्तावपि तुल्यत्वात् । अभिप्रायज्ञानानन्तरं परिकरेऽपि प्रतीयमानार्थे गर्झानवतारात् । तस्मात् परिकरालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - ' वर्ण्यमानार्थमात्रोपपत्तिपर्यवसाय्यभिप्रायसहिताश्लिष्टविशेषणवत्त्वं परिकर ' समासोक्त्यादाववर्ण्यमानार्थ मात्रोपपत्तिपर्यवसायि विशेषाभिप्राय इति न
इति लक्षण निष्कर्षः ।
तत्रातिव्याप्तिशङ्कावकाशः |
2
ननु विशिष्टव्यावर्तकानां
.
-'त
2
ननु विशिष्टविशेषणानां - त
8
'न' इति पदं नास्ति ล
4
' 'मात्रोपपत्तेः' इति 'त' प्रतौ दृश्यते । एवमेव 'स' प्रतौ मात्रोपपत्तेः इत्यनन्तरं उदाहरणादिकं न दृश्यते ।