________________
182
अछङ्कारराघवे
वाक्ये 'अनेकार्थत्वसंभवात् । ननु कल्पनाकृतशब्दमात्रसाम्येन अनेकार्थत्वं श्लेष इति विवक्षितमिति नोक्त दोष इति चेन्मैवम् । 'सकलकलं पुरमेत. जातं संप्रति सुधांशुबिम्बमिवेत्यादौ,शब्दमात्रसाम्यनिबन्धनोपमायामतिव्याप्तेः । न च तादृशस्थलेऽपि श्लेष एवेति वाच्यम् । शब्दमात्रसास्येऽपि सयुक्तैवेति काव्यप्रकाशकारवचनविरोधात् । ननु काव्यप्रकाशकारवचनमनुपपन्नम् । किन्तु तत्र श्लेष एव किं न स्यादिति चेदत्र उपमा प्रधानत्वेन प्रतीयते । श्लेषस्तु विशेषणगतत्वेन जघन्यतया प्रतीयते । तथा च मुख्यजघन्यन्यायेन उपमैवाङ्गीकार्या, न श्लेषः । यत्तु विद्यानाथलक्षणं, तदपि न युक्तम् । शब्दशक्तिमूलध्वनावति व्याप्त्यापत्तेः । किञ्च किमिदं विशेषणविशेष्यसाम्यम् ! विशेष्यविशेषणवाचकशब्दैक्यं वा ! 'श्लिष्टशब्दत्वं वा ! न तावदाद्यः ।
' अजस्रमबलान्विताः प्रबलनैकरुक्संकुलाः ___ भयङ्करशरासनाः परमविप्रयोगं गताः । विचित्रवसनाः सदागतिभुजो शिलाभूभुजो
वसन्ति भवतोहिता नृपमहावनीमण्डले || इत्यादिप्रकृतश्लेषे अव्याप्तिप्रसङ्गात् । 'अत्र मित्रपरत्वे हितशब्दः, अन्यत्र अमित्रपरत्वे त्वहितशब्द इत्येकशब्दत्वाभावात् । द्वितीय स्वात्माश्रयः ।
1 'अनेकार्थत्वसंभवात् । ननु कल्पनाकृत' इति भागः केवलं - 'न' प्रती वर्तते । अन्यत्र न । 'मतिव्याप्तिप्रसङ्गात् - न 'व्याप्तिप्रसङ्गात् । किञ्च - त,न 'विशिष्टशब्दत्वं वा - आ 'पृथ्वीवृत्तमिदम् । 'जसौ जसयलावसुग्रहयतिश्च पृथ्वीगुरुः' इति
तल्लक्षणं वृत्तरत्नाकरे। 'तत्र-न