SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ लेषालङ्कारप्रकरणम् 181 'विशेष्यस्यापि साम्ये दुयोर्वोपादाने श्लेषः' इत्यलबारसर्वस्वकारः । 'श्लेषस्य वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ' इति काव्यप्रकाशकारः । __ 'यत्र विशेषणविशेष्यसाम्यं स श्लेष एष तु देधा' इति विद्याधरः । 'यत्र अनेकार्थतैकस्मिन् वाक्ये स श्लेष इष्यते' इति साहित्यचिन्तामणिकारः । 'प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् ।। श्लेषोऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये ॥' इति विद्यानाथः । 'द्वयोः प्राकरणिकयोरपाकरणिकयोः प्राकणिकाप्राकरणिकयोर्वा 'श्लिष्टपदोपनिवन्धे श्लेषः' - इत्यलकारसर्वस्वकारः । तत्र अलकारसर्वस्वकारविद्यानाथलक्षणयोः वक्तव्यम् । किं प्रकृतगतं शब्दमात्रसाधम्यं श्लेषः ! किं वा अप्रकृतगतम् , आहोस्वित्तदुभयगतम् , उत प्रकृताप्रकृततदुभयान्यतरगतं वा ! नायद्वितीयतृतीयाः। तेषां लक्षणानां परस्परमव्याप्तेः । न चतुर्थः । अन्यतरशब्दार्थानिर्वचनाम् । अतो नेमे लक्षणे युक्ते । यत्तु काव्यप्रकाशकारसाहित्यचिन्तामणिकारलक्षणे ते अपि नोपपन्ने । समासोक्तितुल्ययोगितयोरति प्रसङ्गात् । तयोरप्मेकस्मिन् ''शिलष्टपदापनिवन्धे श्लेषः इति पदद्वयं 'त,न' प्रत्योनास्ति । ''प्रसङ्गात् इत्यारभ्य न च तादृशस्थलेऽपि' इत्यन्तो भागः 'त' प्रती लुप्तः।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy