________________
180
उदाहरणम्
व्यतिरेकः ।
1
2
-
' दोषानुषङ्गकलितो हृतपद्मरागः संपूर्णचन्द्रकिरणप्रकरो बभूव । दोषानुबन्धरहितो धृतपद्मरागः
प्रायेण 'हारनिकरो 'रघुनायकस्य ॥
अत्र दोषानुषङ्गरहितः प्रायेण घृतपद्मराग इति श्लेषसमुत्थापितो
अर्थसाधर्म्य मूलव्यतिरेकानन्तर्यमस्येत्यवान्तरङ्गतिः । ननु
अलङ्कारराघवे
॥ अथ श्लेषालङ्कारः ॥
अस्यापि गम्यौपम्यत्वेन पेटिकायास्सङ्गतिः । शब्दसाधर्म्यमूलत्वेन
-
हारमकरो - न
अस्मिन् पद्ये श्लेषमूलकतया अर्थानुसन्धानम् । दोषानुषङ्गकलितः - दोषा - रात्रिः, तत्संबन्धयुतः, पूर्णचन्द्र किरणप्रकरवत् प्रकरः अयं रामस्य हारनिकरः - हारसमूहः अत एव हृतपद्मरागः अपहृत पद्मकांतिः बभूव | अर्थात् रात्रौ चन्द्रिकावत् ज्वाज्वल्यमानः रामस्य हारसमूह: पद्धशोभाम् अपहृतवान् । अर्थात् अतिशयेन रराज इत्यर्थः । रात्रौ चन्द्रिकायां पद्मानां सङ्कोचकत्वं कविसमय इत्यपि प्रसिद्धम् । तथा दोषानुबन्धरहितः यदा - अत्र दोषः गुणविरोधी इत्यर्थः । तत्संबन्धरहितः हारनिकरः धृतपद्मरागः बभूव । अर्थात् पद्मरागमणिभिः संकलित : हारसमूहः उत्कृष्टतया रराज इति । एवमेव दोषानुबन्धरहितः रात्रिसंबन्धरहितः सन् घृतपद्मरागः स्वीकृतपद्मप्रीतिरपि बभूव इत्यपि ज्ञेयम् । प्रभाते कमलविकसनेन तेषां कान्तिप्रसरत्वाश्च इति श्लेषद्वारा हारनिकरें आधिक्यं प्रतिपादितम् — वसन्ततिलकावृत्तम् ।