SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ध्यतिरेकालङ्कारप्रकरणम् 179 ‘भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इत्यलधारसर्वस्वकारः । तत्र विद्यानाथालङ्कारसर्वस्वकारलक्षणे तावन्न युक्ते । एकत्रैवोपमानस्य उपमेयापेक्षया आधिक्याल्पत्वाभ्यां प्रतिपादनासम्भवात् असंभवापत्तः । नन्वाधिक्येनाल्पत्वेन नाप्रतिपादनमिति चेत् तर्हि आधिक्यप्रतिपादनगर्भलक्षणस्याधिक्यप्रतिपादनमूलव्यतिरेके अव्याप्तिः। यत्तु काव्यप्रकाशकारका. वलीकारलक्षणे तेऽपि नोपपन्ने । . 'अपि मनुजमहाभय'प्रदोयो ___ कथमुपमानमुपैति सोऽर्जुनेन । प्रबलतमसहस्रसंख्यादोष्णा द्विदशभुजो युधि कैकसीतनूजा । इत्युपमेयाल्पत्वप्रतिपादनमूलव्यतिरेके अव्याप्तेः । आधिक्यपदेनारुप. त्वस्याप्युपलक्षणे विद्यानाथलक्षणोक्तदूषणापत्तिः । अतो नेमे अपि लक्षणे युक्ते । तस्मात्साहित्यचिन्तामणिकारलक्षणं युक्तमिति वयमुत्पश्यामः । प्रदोऽपि - आ * पुष्पितामानामवृत्तमिदम् । नगणद्वयरगणात् परो यगणश्चेत् विषमाडौ, समात्रौ च नगणजगणद्वयरगणगुरुश्च चेत् तदा पुष्पितामानामवृत्तं स्यात् । उक्तं च तल्लक्षणं वृत्तरत्नाकरे - 'अयुजि न युगरेफतो यकारो युजि च नजो जरगाश्च पुष्पितामा ॥' इति मनुजानां महाभयप्रदोऽपि सहस्रबाहुना कार्तवीर्यार्जुनेन सह विंशतिभुजः कैकसीतनूजः रावणः उपमान साम्यं कथमुपैति युद्धे ! अर्थात् नैव साम्यमुपैतीति । अत्र उपमानरूपार्जुनापेक्षया उपमेयभूतरावणस्य अल्पत्वप्रतिपादनात् व्यतिरेकः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy