________________
178
अलङ्कारराघवे
अत्र नितान्तशोभनक्रियया शोभनस्य उत्तमपदावाप्तिरूपस्य कारणस्य च संबन्धः ख्याप्यते । 'नात्रार्थान्तरन्यासः शङ्कयः । अत्र प्रतिबिम्बकरणाभावात् प्रतिबिंब करणं दृष्टान्तकरणम् । अत एव निदर्शनाप्यन्वर्थैवेति द्रष्टव्यम् ।
॥ अथ व्यतिरेकालङ्कारः ॥
अस्यापि गम्यमानौपम्यत्वेन पेटिकायाः सङ्गतिः । निदर्शनापदस्य मेदप्रधानार्थसाधर्म्यमूलत्वेन तदानन्तर्यमस्येत्यवान्तरसङ्गतिः । तत्र - 'भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
आधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते || '
इति विद्यानाथः ।
' शब्दे वार्थे तथाक्षिप्ते औपम्ये वस्तुनोभयोः यद्भेदकथनं सोऽयं व्यतिरेकः स उच्यते '
"
इति साहित्यचिन्तामणिकारः ।
' उपमानादुपमेयं यत्राधिक्यस्य गोचरीभवति । सति भेदप्राधान्ये व्यतिरेकोऽयं समाख्यातः ॥ '
इत्येकावलीकारः ।
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः '
इति काव्यप्रकाशकारः ।
·
1
आ प्रतौ ' नात्रार्थान्तरस्य पः शक्यः' इति दृश्यते । 'न' प्रतौ नात्रार्थान्तरन्यासः शङ्कयः' इति पाठः दृश्यते । 'न' प्रतिस्थपाठ एव अत्र स्वीकृतः ।