SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 176 अलङ्कारराघवे विशेषणाभावात् विशिष्टानधिकरणत्वगर्भलक्षणानुगतिः । असंभवद्वस्तुसंबन्धनिमित्तप्रतिबिंबकरणरूपनिदर्शनायां विशेषणसत्वेऽपि विशेष्याभावाल्लक्षणानुगतिः द्रष्टव्या। 'अलङ्कारान्तरे तन्निरासार्थम् एतद्विशेषणविशेष्योभयाभावानधिकरणेत्युक्तम् । तत्र 'उपमानधर्मस्य उपमेयगतत्वेन निबद्धस्य अन्वयासंभवात् संबन्धार्थ प्रतिबिंबकरणाक्षेपे एका निदर्शना। तद्विपर्यये द्वितीया "निदर्शना । i) प्रथमा यथाबालराघवगले मणीमये चित्रकायनखरोऽवलम्बते सान्ध्यरागगगनाश्चलोदयात् तारकाधिपकलाविजृम्भितम् ॥ अत्र तारकाधिपकलाविजृम्भितस्य बालरामकण्ठगतशार्दूलनखे असंभवात् जृम्भितमिव जृम्भितम् अवलम्बते इति प्रतिबिंबकरणाक्षेपः । ii) उपमेयधर्मस्य उपमानेऽसंभवानिदर्शना यथा - बालस्य रामस्य पदाग्रलोल हीरस्फुरन्नूपुरडम्बरश्रीः। 1 अलहारान्तरेऽतिव्याप्तिनिरासार्थम् - त • 'उपमानधर्मस्य' 'इत्यारभ्य' व्यतिरेकालंकारे 'लक्षणोक्तदूषणापत्तिः' इत्यन्तो भागः 'आ' प्रतौ लुप्तः । ' ' यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्संबन्धार्थ बिंबप्रतिबिंबफरणम् आक्षिप्यते सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । (प्रतापरुद्रीये-निदर्शनालंकारः) ' रथोद्धतावृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy