________________
निदर्शनालङ्कारप्रकरणम्
175 तत्र विद्यानाथलक्षणे वक्तव्यम् । किम् उपमानोपमेययोरप्यसंभव. द्धर्मयोगो विवक्षितः । किं वा एकत्र संभवतोऽन्यगतत्वेन असंभवतश्च धर्मस्य योगो विवक्षितः । नाद्यः । उभयोरप्यसंभवतो धर्मस्य योगासंभवात् असंभवापत्तेः । द्वितीयेऽप्येकत्र शब्देन किमुपमानं विवक्षित, किं वोपमेयम् । नाद्यः । उपमेयगतधर्मासंभवनिबन्धनप्रतिबिंबकरणमूलनिदर्शनायामव्याप्तेः । नेतरः। उपमानगतधर्मासंभवनिबन्धनप्रतिबिंबकरणमूलनिदर्शनालकारेंऽव्याप्तेः । अत एव उभयत्र संभवतो धर्मस्य 'उभयत्रासंभवो न विवक्षितु शक्यः । विरोधादसंभवापत्तेः । अतो नेदं लक्षणं युक्तम् । एवं साहित्यचिन्तामणिकारकावळीकारलक्षणे, तेऽपि न युक्ते । प्रथमलक्षणस्य द्वितीयनिदर्शनायाम् अव्याप्तेः । द्वितीयलक्षणस्य प्रथमनिदर्शनायाम् अव्याप्तेः । न च उभयो. रन्यतरनिमित्तप्रतिबिंबकरणं निदर्शनेत्यनुगम इति वाच्यम् । अन्यतरशब्दे. नैकैकविवक्षायामव्याप्तेरुक्तत्वात् । उभयविवक्षायामसंभवः । अतो नेमे लक्षणे युक्ते । एतेन अलङ्कारसर्वस्वकारलक्षणमपि 'निरस्तम् ।।
___ काव्यप्रकाशकारलक्षणेऽपि प्रथमलक्षणस्योत्तरनिदर्शनायामव्याप्तेः । अतः तदपि न युक्तम् । तस्मानिदर्शनालङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते -
। 'असंभवद्वस्तुसंबन्धनिमित्तप्रतिबिम्बकरणरूपत्वाधिकरणत्वे
सति संभवद्वस्तुनिमित्तप्रतिबिम्बकरणरूपत्वानधिकरणमेतद्विशे... षणविशेष्योभयाभावानधिकरणालंकारो निदर्शनालंकारः।'
अत्र संभवद्वस्तुप्रतिबिंबकरणरूपनिदर्शनायां विशेष्यसत्वेऽपि सत्यन्त.
'उभयत्रासंभवोऽपि-त,न 'निरस्तं बोव्यम्-त,न . 'असंभद्वस्तुसंबन्ध-इत्यारभ्य 'विशिष्टानधिकरणत्वगर्भलक्षणानुगतिः' इत्यन्तो भागः 'न' प्रतौ लुप्तः ।